Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१३) (स्रग्विणीवृत्तम् ) (२) बुद्धिमान् सागरः मूरिरीशः कृपासागरो बुद्धिरित्याख्यया ख्यातिभाग् । शुद्धशास्त्रप्रवक्ता प्रतापोज्ज्वलः, सद्गुरुः सर्वदा वन्दनीयो जनैः ॥१॥ ( शार्दूलविक्रीडितवृत्तम् ) अध्यात्मैकरसप्रियः प्रियगुणः सन्मार्गगामिप्रियः, सध्यानस्थितिकप्रियः प्रियदयाधर्मः प्रियो योगिनाम् । शुद्धज्ञानविभाविभासिततनुः सिद्धान्ततत्वोदधिः, सूरिः श्रीयुतबुद्धिसागरविभुः कुर्यात्मता मङ्गलम् ॥ १॥ अध्यात्मैकरसाम्बुधिश्रिततटा लब्धज्ञरत्नालयो योगाङ्गीयसुतत्वनिष्ठितधियः सिद्धान्तसाराऽऽलयाः । सर्वत्राऽस्खलितोक्तयः सुललितश्रद्धेयमूर्तिप्रभाः, श्रीमद्बुद्धिपयोधिमूरिचरणाः कुर्वन्तु नो मङ्गलम् ॥ २॥ यत्स्याद्वादवचःसुधासुतिमयोद्गारेण भूमण्डले, तृप्ता भव्यजनाः प्रसत्रमनसा धर्म्यक्रियां कुर्वते । यः सम्यग्गुणगौरवैः क्षितितले ख्याति परां लब्धवान् , बुद्धयब्धिः सततं क्षितौ विजयतां श्रीपूज्यमूरीश्वरः ॥३॥ यत्स्वाध्यात्मिकवाक्सुधाश्रवणतः प्रीता न के भूतले, यत्स्यादादरहस्य रक्षण विधेः के नाऽनुमोदे पराः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270