Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१६ )
श्रीसूरीश्वरबुद्धिसागरगुरोः सेवापरो यः सदा, सूरीशोऽजित सागरो विजयतां चारित्रचूडामणिः ॥ ३ ॥ यः श्रीसूरिगुणान्वितो गुणभवत्पूर्णप्रतापान्वितः श्रीस्याद्वादरहस्यरक्षण पर स्तैस्तैः प्रतापैः पुनः । रक्षातो जिनशासनस्य भुवने कल्याणकर्ताऽस्ति यः, सूरिः सोऽजितसागरो विजयतां सर्वार्थविद्यानिधिः || ४ || शान्तः सर्वमतो नतो गुणिगणैस्तत्त्वाऽर्जने यो रतः,
चेतः संयमतः सदात्मनिरतो गीतोऽस्ति यः सज्जनैः । प्रीतः प्रेमजनेऽन्वितोमुनिजनैः शस्त्रेषु यः पण्डितः, सूरीन्द्रोऽजितसागरो विजयतां स्याद्वादविद्यानिधिः॥ ५ ॥ यो गूढार्थ जिनो शासन रहस्यार्थस्य विद्योतकः,
शास्त्राम्भोध्यवगाहनैकर सिको यो वाचनावाक्पतिः । नानादर्शन दर्शको सुवि सतां सम्यक्पथाऽऽदर्शकः, सूरीन्द्रोऽजितसागरो विजयतां काव्येषु काव्योपपः ॥ ६ ॥ गम्भीरार्थ गरिष्ठत गहनग्रन्थावलीभाष्यकृत् नानातर्क विचारणेऽतिनिपुणो विद्यावतामुत्तमः । यः सर्वाssगमगौरवप्रयनताप्रत्यक्षकर्ता धियासूरीन्द्रोऽजितसागरो विजयतां विद्वन्मनोमोदकः ॥ ७ ॥
-
सम्यग्ज्ञानगुणादिभूषणभरैर्यः सर्वदा भूषितः,
विद्वन्पण्डलमण्डनं जितमनाः पञ्चवताराधकः ।
For Private And Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270