Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 259
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१८ ) कारं कारं विमलहृदयं प्रेमपीयूषपूर्ण, सूरि वन्देऽजितजलनिधिं निर्मलाssत्मप्रबोधम् ॥ ३॥ नामं नामं परमशिवदं सद्गुरोः पादपद्मं, लाभं लाभं गुरुतरगुणं तत्त्वबोधं प्रकाशम् । ग्राहं ग्राहं भवजलनिधेस्तारणीं चित्तशुद्धि, सूरिं वन्देऽजितजलनिधि निर्मलाऽऽत्मप्रबोधम् ॥ ४ ॥ वामं वामं विषयविरसं ज्ञानतन्त्रप्रवीणं, श्रामं श्रामं भवगमनतो लब्धदीव्यप्रदेशम् । क्षायं क्षायं व्यसनमनिशं श्रेष्ठचारित्ररत्नं, सूरि वन्देऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ ५ ॥ दाहं दाहं विषमभयदं कर्मवृन्दं जयन्तं, गाहं गाडं कलिमलहरं जैनतश्वाऽम्बुराशिम् । साई साहं परिषहचमूं स्वात्मरूपकनिष्ठ, सूरि वन्देऽजितजलनिधिं निर्मलात्मप्रबोधम् भ्रामं भ्रामं भववनपथे भूरिभाग्यप्रभावाद्, धारं घारं जिनवरपदं तावकं मानसाब्जे । वारं वारं शिवसुखगतं भव्यबोधप्रवीणं, सूरि वंदेऽजितजलनिधिं निर्मलाऽऽत्मप्रबोधम् ॥ ७ ॥ सारं सारं विशदमतितस्तान्त्रिकं दर्शयन्तं, पारं पारं भवजलनिधेर्देहिनः प्रापयन्तम् । ॥ ६ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270