Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०५ ) दुर्दान्ताक्षगणो विचारपटुना येन क्षणानिर्जितः, __ संत्रस्ताः प्रविलोक्य यं बुधगणा अन्ये क्रियादिनः । तं भुवनत्रयपूजनीयमतुलनेमङ्करं शाश्वतं,
लिप्सुर्धर्ममहं स्तवीमि नितरां शान्तिप्रभु शान्तिदम् ।।७।। पारुष्यं प्रपलायते विकलता नश्यत्यनर्थप्रदा, ___ मायामोहकरी करोति विकृति न क्रोध उज्जृम्भते । मानःस्तम्भनतां भजत्यनुदिनं यद्ध्यानसक्तात्मनां,
स श्रीशान्तिजिनेश्वरो भवतु मे संसारसंतारकः ॥ ८ ॥ कारुण्यं वितनोति दैन्यमपहन्त्यारोग्यमापादय
त्यौन्नत्यं च ददाति सम्पदमहो विस्तारयत्यञ्जसा । बुद्धिं शुद्धतरां करोति विपुलां कीर्ति दिगन्तश्रितां, ___ यद्ध्यानं विमलं नमामि सततं तं शान्तिनाथं प्रभुम् ।।९।। यच्छान्ताननपङ्कजं जनयते दृष्टं प्रगे प्रोल्लस
च्छान्तिं शान्तमनस्विनां प्रकटयत्यानन्दवल्ल्यकुरान् । कामान् सान्त्वयते मनोऽभिलषितान् निर्वारयत्यापदं,
तं श्रीशान्तिजिनोत्तमं सुखकरं वन्देऽर्बुदेशं मुदा ॥१०॥ मायाऽपायकरण्डिकावशमतो मोमुखाते बन्धतः,
क्रोधाऽग्नेःशिखया ज्वलन् नरगण: पापच्यते तापतः । मानाऽरेः प्रवलैः शरैर्विनिहतो दोयते दुःखतः,
श्रीशान्तिप्रभुदर्शनेन विकलोऽतस्तं भजे भावतः ॥ ११ ॥
For Private And Personal Use Only

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270