Book Title: Laghu Siddhant Kaumudi Part 01
Author(s): Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 17
________________ ( १४ ) सह काँगड़ाप्रान्तवर्तिनी सुकेत-(मण्डी) राजधानी समागताः स्वामिपादाः श्रीविशुदानन्द-सरस्वतीमहाभागास्ततः पर्यावर्त माना जेजों-मदूदमार्गेण समाजग्मुः । जेबोंनगरे च श्री पं० केशवरामशर्मणां प्रपौत्रं श्रीधूर्जटिशर्माणं, रामनारायणशर्माणं च संन्यासधौचित्या शुभाशीर्वादादिभिः सम्भावयाम्बभूवुः । - तस्मिन् समये वाराणस्यां विख्याताः परमोदारचरिता जम्बूप्रदेशीया विद्वांसः श्री पं० काकारामशर्मा:, मूलत्राणदेशीया वैयाकरणधुरन्धराः श्री पं० विभवरामशर्माणश्चापि प्रथमतः श्री पं० केशवरामशर्मणामन्तेवासित्वमभजन् । एवं पञ्चाम्बुदेशेऽपि पं० केशवरामशर्मणां शिष्या योग्या विद्वांसः समभूवन् । यथा-पटियाला-राज्यान्तर्गतचमारू-ग्रामवास्तव्याः पं० हरयशरायशर्माणः पटियालाराज्यपण्डिताः, तथा तद्देशीया एव श्रीमन्तो वरागारामशर्माणः पटियालाराजपण्डिताः। जम्बूराजधानीराजपण्डिताः श्री पं० गोकलचन्द्रशर्माणः। होश्यारपुर-नगरनिवासिनः श्री पण्डितब्रजलालशर्माणः ( श्री पं० कन्हैयालालशर्मणां तातपादाः ), पं० गोविन्दराम-सीतारामप्रभृतयश्च । तथा वृत्तिप्रभाकर-विचारसागरादि-भाषावदान्तग्रन्थलेखकाः श्रीनिश्चलदासमहात्मानोऽपि श्री पं० केशवरामशर्मामेव सकाशात्प्रथमं पठितवन्तः ( इदमाप विशुद्धचरितावलीतोऽवगम्यते )। किम्बहुना श्री पं० केशवरामशर्मणां शिष्यप्रशिष्यादिसम्प्रदायो यदि गण्येत सम्पूर्णमपि भारतं तद्व्याप्तमेवोपलभ्येत । उक्तं च स्वरचित-वृत्तरत्नाकरटीकायां श्रीपण्डितरामप्रपन्नशास्त्रिमिः-- श्रीजेजों मधुदापुरीयविबुधः श्रीकेशवोऽभदिदम् यच्छिष्यादिपरम्परावृतमहीच सुविद्यागृहम् ॥ किञ्च तात्कालिका राजानो महाराजाश्चापि श्री पं० केशवरामशर्मणां समुचितं सम्मानमकार्षुः । पंचाम्बु केसरी श्रीमहाराजो रणजीतसिंहो भूयसी भूमि निष्करीकृत्यानिच्छतेऽपि पण्डितवरायास्मै सबहुमानमयच्छत् ययाऽद्यापि तदवंश्यानां स्थायिसम्पत्तिरूपेणावस्थीयते । सिक्खराज्यनेता सरदारदेवसिहमिश्ररूपलाल-प्रभृतयोऽस्यपण्डितप्रवरस्याऽऽदर्शमहात्मनः सत्संगलाभं काले काले प्राप्नुवन् । __ अथ नवतिवर्ष-परिमित-वयसि नवस्युत्तराष्टादश-शततमे ( १८६०) वैक्रमवत्सरे मानव-लोकलीला समाप्य साकेतलोकमध्यशि श्रयन् श्री पं० केशवरामशर्माणः ।। ___पं० केशवरामशर्मणां पुत्रः श्री पं० रघुनाथशर्मा योग्यो विद्वान् नवयौवन एव लोकमिमं विहाय परलोकातिथिर्बभूव । पौत्रश्च पं० श्रीमकुन्दलालशर्मा धुरन्धरो विद्वान् विश्वविश्रुतो महात्मा परमभागवतो निजजीवनं श्रीभगवद्भक्तावेव यापितवान् । अन्त्ये चायुषि सर्वथा मौनमापन्नो विद्वत्संन्यासेन शेषं समयं व्यतिगमयन् भगवन्तमेव भेजे ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 450