________________
( १४ ) सह काँगड़ाप्रान्तवर्तिनी सुकेत-(मण्डी) राजधानी समागताः स्वामिपादाः श्रीविशुदानन्द-सरस्वतीमहाभागास्ततः पर्यावर्त माना जेजों-मदूदमार्गेण समाजग्मुः । जेबोंनगरे च श्री पं० केशवरामशर्मणां प्रपौत्रं श्रीधूर्जटिशर्माणं, रामनारायणशर्माणं च संन्यासधौचित्या शुभाशीर्वादादिभिः सम्भावयाम्बभूवुः । - तस्मिन् समये वाराणस्यां विख्याताः परमोदारचरिता जम्बूप्रदेशीया विद्वांसः श्री पं० काकारामशर्मा:, मूलत्राणदेशीया वैयाकरणधुरन्धराः श्री पं० विभवरामशर्माणश्चापि प्रथमतः श्री पं० केशवरामशर्मणामन्तेवासित्वमभजन् । एवं पञ्चाम्बुदेशेऽपि पं० केशवरामशर्मणां शिष्या योग्या विद्वांसः समभूवन् । यथा-पटियाला-राज्यान्तर्गतचमारू-ग्रामवास्तव्याः पं० हरयशरायशर्माणः पटियालाराज्यपण्डिताः, तथा तद्देशीया एव श्रीमन्तो वरागारामशर्माणः पटियालाराजपण्डिताः। जम्बूराजधानीराजपण्डिताः श्री पं० गोकलचन्द्रशर्माणः। होश्यारपुर-नगरनिवासिनः श्री पण्डितब्रजलालशर्माणः ( श्री पं० कन्हैयालालशर्मणां तातपादाः ), पं० गोविन्दराम-सीतारामप्रभृतयश्च । तथा वृत्तिप्रभाकर-विचारसागरादि-भाषावदान्तग्रन्थलेखकाः श्रीनिश्चलदासमहात्मानोऽपि श्री पं० केशवरामशर्मामेव सकाशात्प्रथमं पठितवन्तः ( इदमाप विशुद्धचरितावलीतोऽवगम्यते )। किम्बहुना श्री पं० केशवरामशर्मणां शिष्यप्रशिष्यादिसम्प्रदायो यदि गण्येत सम्पूर्णमपि भारतं तद्व्याप्तमेवोपलभ्येत । उक्तं च स्वरचित-वृत्तरत्नाकरटीकायां श्रीपण्डितरामप्रपन्नशास्त्रिमिः--
श्रीजेजों मधुदापुरीयविबुधः श्रीकेशवोऽभदिदम्
यच्छिष्यादिपरम्परावृतमहीच सुविद्यागृहम् ॥ किञ्च तात्कालिका राजानो महाराजाश्चापि श्री पं० केशवरामशर्मणां समुचितं सम्मानमकार्षुः । पंचाम्बु केसरी श्रीमहाराजो रणजीतसिंहो भूयसी भूमि निष्करीकृत्यानिच्छतेऽपि पण्डितवरायास्मै सबहुमानमयच्छत् ययाऽद्यापि तदवंश्यानां स्थायिसम्पत्तिरूपेणावस्थीयते । सिक्खराज्यनेता सरदारदेवसिहमिश्ररूपलाल-प्रभृतयोऽस्यपण्डितप्रवरस्याऽऽदर्शमहात्मनः सत्संगलाभं काले काले प्राप्नुवन् । __ अथ नवतिवर्ष-परिमित-वयसि नवस्युत्तराष्टादश-शततमे ( १८६०) वैक्रमवत्सरे मानव-लोकलीला समाप्य साकेतलोकमध्यशि श्रयन् श्री पं० केशवरामशर्माणः ।। ___पं० केशवरामशर्मणां पुत्रः श्री पं० रघुनाथशर्मा योग्यो विद्वान् नवयौवन एव लोकमिमं विहाय परलोकातिथिर्बभूव । पौत्रश्च पं० श्रीमकुन्दलालशर्मा धुरन्धरो विद्वान् विश्वविश्रुतो महात्मा परमभागवतो निजजीवनं श्रीभगवद्भक्तावेव यापितवान् । अन्त्ये चायुषि सर्वथा मौनमापन्नो विद्वत्संन्यासेन शेषं समयं व्यतिगमयन् भगवन्तमेव भेजे ।