________________
भिनिवेशो लब्धगुरुवरादेशः परित्यज्य सहजस्नेहं निजगेहं, विदलय्य बन्धुजन महामोह-बन्धनम् विगणय्य चाशेषान्मार्गक्लेशान् पदातिरेव विद्याप्रधान-केन्द्रभूतां श्रीवाराणसी प्रतस्थे । तां च षड्विंशतिवर्षाण्यध्युष्य शब्देन्दुशेखरादिषु भैरव्यादिटीकाकत्तु : श्री भैरवमिश्रस्य तावपादानां श्रद्वेयचरणानां श्रीमत्पण्डितभवदेवमिश्राणां सकाशात् समस्तशात्रजातमधिजग्मिवान्, विशेषतश्च पाणिनीयं व्याकरणम् । श्रूयते च किल मिश्रमहाभागानां स्वपुत्रेऽपि श्रीभैरवमिश्रे नासीत्तथा स्नेहो यथाऽऽसीत्तत्सहाध्यायिनि श्रीकेशव ।
श्रीगुरुचरणकृपया सम्प्राप्तसकलविद्यः श्रीकेशवरामः प्राक्तनसस्कारपरम्परावशाद् भगवद्भक्तिप्रवणचेताः परमेशदयात प्रारम्भादेव लब्धभगवद्भक्तसंगः शिथिलितलौकिकव्यासंगो भगवति श्रीरामे परमभक्तिमान् समजायत । ( एतस्य हि महामहिमशालिन आदर्शभगवरक्तस्य विदुषो वाराणसेयं विद्यार्थिजीवनं गृहीयं गार्हस्थ्य-जीवनञ्चाप्यलौकिकघटनाभिर्घटेतं विद्यते । विस्तरभयान्नात्र ता लेखितुम्-उपक्रम्यन्ते )। ___अथाऽनिच्छन्नपि षड्विंशतिवर्षानन्तरं श्रीगुर्वाशानुरोधेन वाराणसीतो निजग्राम समाजगाम । लघुतरेऽ पे तस्मिन् ग्रामे जिज्ञासया समागतान् विद्यार्थिनोऽध्यापयितुं प्रारभत । शनैःशनैः प्रवर्धमाना सा विद्यार्थिसंख्या नवतिमस्पृशत् । सर्वोऽपि विद्यार्थिनां निवास-भोननादि-प्रबन्धस्तदाराध्यदेवस्य श्रीभगवतो रामस्य कृपयैव समसिद्धयत् । अस्मिन् समये पंचाम्बुदेशे क्वचिदेवासीत्कश्चित्पण्डितः, सोऽपि सामान्यकर्मकाण्डग्रन्थान् शीघ्रबोधादोनेवाऽध्यापयति स्म, व्याकरणे च केवलं सारस्वतस्य चन्द्रिकायाश्चैव स्वाचित्कं पठनपाठनमभूत् । पाणिनीय-व्याकरणस्य तु क्वचित्कदापि नामैवाऽश्रूयत । श्रीपण्डितकेशवरामशर्मण वाऽत्र पुनरभिनवप्रक्रियाक्रमेण सञ्जात-प्रचुरप्रचार-योग्यताकं पाणिनीयं व्याकरणं प्रचारितं ब्राह्मणोचित आचारश्च संचारितः ।
श्रीपण्डितकेशवरामशर्मणोऽस्यां गृहीयपाठशालायां प्राप्तशिक्षा विद्यार्थिनो विश्वविख्याता राजाधिराज-वन्दितचरणा महापुरुषा विपश्चिदपश्चिमाः समपद्यन्त । एष चातीव प्रसिद्ध आमाणकस्तात्कालिक आसीत् “वदत्र पठिता विद्यावश्यं सफला भवति" इति, अत एव केचित्तु विद्या-साफल्य-लाभायैव किंचित् कालमत्रावश्यमधीयते स्म । प्राप्तकैवल्यानां महामहिम्नां पूज्पपादानां काशीस्थानां श्री १०८ विशुद्धानन्दसरस्वतीनां श्रद्धेयगुरवः श्री १००८ गौड़स्वामिमहाभागाः ( येषां पूर्वाश्रमनाम 'भगवान्दास' इति जन्मभूमिश्च पटियालाराज्यान्तर्गतं सनौर-नगरम् ) यौवनारम्भे श्रीकेशवरामशर्मणां सकाशात् मदूदग्रामेऽध्ययनं कृतवन्तः ( एतच्च काश्यां लहरी-प्रेसमुद्रिवाद विशुद्धचरितावलीयन्यात् सर्वमवगच्छामः ) एतेनैव सम्बन्धेनेकदा पंचाशता पण्डितैः