SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ उपेन्द्र-कुल-परिचयः (अथ लघुसिद्धान्तकौमुद्या विवृतिरियं यन्नाम्ना "उपेन्द्रविवृति” रिति विहिता विश्रुता च, तस्यास्य श्रीमदुपेन्द्रनाथशास्त्रिणः परमविमले कुले समभूवन अनेके लोकविश्रुताः सुयोग्या संस्कृतविद्वांसः, येषामादिमः श्री पं० केशवराममहाराजः समभूत् । तदादि श्रीमदुपेन्द्रशास्त्रिपर्यन्तं संक्षिातमितिवृत्तं मध्यकौमुद्यादौ "केशव-परिचय"नाम्ना प्रदत्तम्, अत्रापि तद् उपेन्द्रकुलपरिचयनाम्ना प्रदीयते ।) अस्ति पंचाम्बु-प्रान्तोत्तर-दिग्विभागस्थे 'होश्यारपुर'-मण्डले द्वाबाप्रान्तशिरोदेशे 'जेनों'- नामातिविश्रुता नगरी। तत्र च विद्यते परम-प्रसिद्ध सारस्वतजातीयं प्रभाकरोपाह्नमेकं पण्डितकुलम् । यत्कुलीनाश्चाद्यावधि विविधगुणमण्डिताः सुयोग्याः पण्डिताः समभूवन् विद्यन्ते च । एतत्कुलपूर्वपुरुषेषु महामनाः परम-भागवतः श्रीपण्डित-केशवरामशर्मा प्रभाकर आदिमो विद्वान् बभूव । योहि यवनानां नानाकराऽऽक्रमण-कारणाद् विगताचार-प्रचारं परिलुप्त-विद्यासंचारं पाणिनि-जन्मभुवमपि कालप्रभावेण पाणिनीय व्याकरण-विज्ञान-रहितं सर्वथा विस्मृतपरमेशं पंचाम्बुदेशं पुन: प्रसूत-सदाचारं संल्लब्धविद्या-प्रचारं पाणिनीय-व्याकरण-विज्ञान-सहितं सदा संस्मर्यमारापरमेशञ्च चकार । समुल्लिख्यते नस्य तत्कुलस्य चाऽयमल्पीयान् परिचयः । विद्यावारिधिर्महामनाः परमभागवतः पण्डितप्रवरः श्रीकेशवरामशर्मा प्रभाकरः अष्टादश-शततमे ( १८००) वैक्रमवत्सरे 'जेजों'-नगरनिकटवातेनि मदूदग्रामे बालाकिरामशर्मणः पुण्यभवन जन्मना मण्डयामास श्रीकेशवः । सोऽयं बाल एव आकृत्या प्रकृत्या च परमश्चारुः, वर्णेन गौरः, पीनांसो दीर्घबाहुः, कमलदलविशाल-लोचनो दर्शकजन-मनोमोहनः, सर्वजनहिताभिलाषी मितभाषी चासीत् । इटंकुलीनायाश्च भगवद्भक्ताया 'माई जीत्तो' देव्याः प्रसादादुबुद्धभगवदनुरागस्तस्या एव सकाशात् प्राप्ताशीराशिः, "मदवाणी' ग्रामवास्तव्यस्य वैष्णवमहात्मनः पं० श्रीमथुरादासशर्मणोऽधिगत-प्राथमिकाक्षरशिक्षा-दीक्षः प्रवर्धमान-विद्याधिगमा
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy