________________
( १५ ) अस्यापि विद्वद्वरस्य जं वनं विविधालौकिकघटनापरिपूर्ण श्रूयते । (श्रीमत्पण्डितमुकुन्दलालतः समारभ्य पण्डितकुलमिदं मदूग्रामं परित्यज्य जैनोंनगरं निवासभुवं चकार)। श्रीपण्डितमुकुन्दलालपुत्राश्च श्रीरामचन्द्र-धूर्जटिरामनारायणशर्माणोऽपि योग्या विद्वांसः स्वर्वजवत् सुरसरस्वती-सेवातत्पराश्चाभूवन, परम्परागतां तां गृहीयपाठशालां च समचालयन् । अनन्तरं चापि पण्डितकुलेऽस्मिन् योग्या विद्वांस एव समजायन्त, यथा
पं० परमानन्दशर्मा धर्मशास्त्री कर्मकाण्डप्रकाण्डम् श्री पं० रामचन्द्र शर्मतनूजन्मायं परमानन्दशर्मा कराणस्यां पठितविद्यः सुयोग्यो विद्वान् धर्मशास्त्रपागतः कर्मकाण्डनिष्णातश्चाभूत् । सर्वमप्यायुगुहीयपाठशालायां तस्यां विद्यार्थिपाठन एवायापयत् । परम्परागता पाठशालेयमद्यापि कुलेऽस्मिन् एतद्देशीयान् विद्यार्थिनो निश्शुल्कविद्यादानेन सम्भावयन्ती विराजते।
प. श्रीरामप्रपन्नशास्त्री काव्य-व्याकरण-दर्शनतीर्थः श्री पं० धूर्जटिशम्मणो ज्येष्ठतनयोऽयं विद्वान् जम्बुराजकीय-श्रीरघुनाथसंस्कृतमहाविद्यालये महाध्यापकः पञ्चाम्बुप्रान्तीयविद्वत्सु प्रधानगण्यतां प्रायात् । अयं च निरुक्ते प्रपन्नालोकाख्यं भाष्यं, वासुदेवविजये केशवों नामातिसरलां टीकां, वृत्तरत्नाकरे रत्नसंग्रहाख्यां व्याख्यां विदग्धमुखमाडने च कुञ्चिकाभिधां विवृति विरचय्य प्राकाशयत् येन च संस्कृतसाहित्यस्य भूयानुपकारः समपद्यत । पिङ्गलसूत्रभाष्यं वैयाकरणभूषणविवृतिश्चैतत्सङ्कलिताऽ: द्रितैव विद्यते साम्प्रतमपि । हा हन्त ! १६६४ वैक्रमपौषे शुक्लतृतीयायामयं मुयोग्यो विद्वान् वियोगकातरान् बन्धून् विहाय वैकुण्ठलोकमारुक्षत् । अद्यत्वे चैतादृशानामाचारसम्पन्नानां योग्यविदुषां प्रायोऽभाव एव । विद्वत्समाजे सञ्जातां त्रुटिमिमां सद्य एव पूरपतु भक्तवत्सलो भगवान् श्रीकृष्णचन्द्रः।
वेदान्त सार्वभौमस्तार्किकचक्रचूडामणिरादर्शमहात्मा
भगवद्भक्तः श्री पं० श्रीनीलकण्ठशास्त्री १६३८ वैक्रमवारे शिवरायां लब्धजन्मायं श्री पं० रामनारायणशर्मणो ज्येष्ठपुत्रो वाराणसी चतुर्दशवर्षाण्यध्युष्य स्वमातामहात् श्रीपण्डित-मोहकमचन्द्रशर्मणः सकाशाद व्याकरण का यानि च, प्रथितमहिम्नां नैयायिकप्रवराणां श्रीमत्पण्डितसतारामराः स्त्रियां सकाशात् सम्पूर्णन्यायशास्त्रं, तथा महामहोपाध्यायानां श्रीमत्पहिडानकच्छेदराम-( उमापति ) शर्मणां पटशास्त्रियां सकाशात् वेदान्तान् योगं सायं चाधीतवान् । त्वभावत एवायं लौकिकप्रवृत्तिहितो भगवदः भक्त्येकनिष्ठो जयपुरर ज्यान्तर्गत-"रामगढ़" ( सीकर ) स्थाने स्वजीवनं श्रीभगवद्भजन एवायापयत् । (प्रत्यान् कांश्चिद् योग्यान् विदुषो न्यायशास्त्रमपि स्वातन्त्र्येणा