SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पाठयत् । तत्र चास्य सर्वविधमपि लौकिकं योगक्षेमं भगवत्प्रेरितः श्रीमान् श्रेष्टिप्रवरः श्रीकेशवदेवः समपादयत् । महात्मनोऽस्य विदुषः सङ्गेन चासो श्रेष्ठी वानप्रस्थरूपेण भगवन्तमेवाराधयितुं श्रीहरिद्वारतीयं समाश्रितवान् । आदर्शमहात्मायं पण्डितप्रवरः १६६१ वैक्रमवत्सरे चैत्रशुक्लपञ्चम्यां मर्त्यलोकं विहाय गोलोकं धाम प्राविशत् । श्री पं० उपेन्द्रनाथशास्त्री वैयाकरणभूषणो दर्शनालङ्कारः श्रीनीलकण्ठशास्त्रिणां कनिष्ठसहोदरोऽयमुपेन्द्रशास्त्री स्वल्प एव वयसि सुयोग्यो विद्वानभूत् । परमभिनवयौवन एव वृद्धी मातापितरौ विरहाकुलौ विहाय स्वर्लोकमशिश्रयत् । विदुषोऽस्यैव स्मारकरूपा लघुकौमुद्याः शोभना विवृतिरियमुपेन्द्रषिवृतिर्नामेतस्कनिष्ठसहोदरेण विश्वनाथशास्त्रिणा सम्पादिता विद्यार्थिजनोपकारायविराजतेतराम । ___ एवं श्री पं० अमरनाथ-परशुराम-विश्वमित्र शर्माणोऽपि कुलस्यैतस्य सुयोग्या भूषणभूता विद्वांसोऽभूवन, परमकाल एव कालकवलितकलेवराः परलोकमध्यवात्सुरिति बन्धूनां चेखिद्यते चेतः। साम्प्रतं चापि कुलेऽस्मिन् परम्परागत-पाण्डित्वसंरक्षकाः सुयोग्या विद्वांसो व्याकरणाचार्य-श्री पं० युगलकिशोरशास्त्रि-विश्वनाथशास्त्रिप्रभाकर-नीलाम्बरशास्त्रिविद्यालङ्काराः, वैद्यपञ्चानन-श्री पं० जयगोपालशर्म-श्री पं० मुरलीधरशर्मप्रभृतयश्च विद्यन्ते । एवं शतशो वत्सरेभ्यः कुलेऽस्मिन् संस्कृतवैदुषी लिखितपठितेव वेविद्यते भगवत्कृपातः । परतश्चापि परमेश्वरानुकम्पया सुरसरस्वतीसेवका विद्वांसो भगवद्भक्ता एव भूयापुरित्यस्ति साञ्जलिबन्धं प्रार्थना भगवच्चरणसरोरुहेषु ।। का० शु० प्रतिपत् १६६५ वैक्रम ॥ इति शम् ॥
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy