Book Title: Laghu Siddhant Kaumudi Part 01
Author(s): Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 16
________________ भिनिवेशो लब्धगुरुवरादेशः परित्यज्य सहजस्नेहं निजगेहं, विदलय्य बन्धुजन महामोह-बन्धनम् विगणय्य चाशेषान्मार्गक्लेशान् पदातिरेव विद्याप्रधान-केन्द्रभूतां श्रीवाराणसी प्रतस्थे । तां च षड्विंशतिवर्षाण्यध्युष्य शब्देन्दुशेखरादिषु भैरव्यादिटीकाकत्तु : श्री भैरवमिश्रस्य तावपादानां श्रद्वेयचरणानां श्रीमत्पण्डितभवदेवमिश्राणां सकाशात् समस्तशात्रजातमधिजग्मिवान्, विशेषतश्च पाणिनीयं व्याकरणम् । श्रूयते च किल मिश्रमहाभागानां स्वपुत्रेऽपि श्रीभैरवमिश्रे नासीत्तथा स्नेहो यथाऽऽसीत्तत्सहाध्यायिनि श्रीकेशव । श्रीगुरुचरणकृपया सम्प्राप्तसकलविद्यः श्रीकेशवरामः प्राक्तनसस्कारपरम्परावशाद् भगवद्भक्तिप्रवणचेताः परमेशदयात प्रारम्भादेव लब्धभगवद्भक्तसंगः शिथिलितलौकिकव्यासंगो भगवति श्रीरामे परमभक्तिमान् समजायत । ( एतस्य हि महामहिमशालिन आदर्शभगवरक्तस्य विदुषो वाराणसेयं विद्यार्थिजीवनं गृहीयं गार्हस्थ्य-जीवनञ्चाप्यलौकिकघटनाभिर्घटेतं विद्यते । विस्तरभयान्नात्र ता लेखितुम्-उपक्रम्यन्ते )। ___अथाऽनिच्छन्नपि षड्विंशतिवर्षानन्तरं श्रीगुर्वाशानुरोधेन वाराणसीतो निजग्राम समाजगाम । लघुतरेऽ पे तस्मिन् ग्रामे जिज्ञासया समागतान् विद्यार्थिनोऽध्यापयितुं प्रारभत । शनैःशनैः प्रवर्धमाना सा विद्यार्थिसंख्या नवतिमस्पृशत् । सर्वोऽपि विद्यार्थिनां निवास-भोननादि-प्रबन्धस्तदाराध्यदेवस्य श्रीभगवतो रामस्य कृपयैव समसिद्धयत् । अस्मिन् समये पंचाम्बुदेशे क्वचिदेवासीत्कश्चित्पण्डितः, सोऽपि सामान्यकर्मकाण्डग्रन्थान् शीघ्रबोधादोनेवाऽध्यापयति स्म, व्याकरणे च केवलं सारस्वतस्य चन्द्रिकायाश्चैव स्वाचित्कं पठनपाठनमभूत् । पाणिनीय-व्याकरणस्य तु क्वचित्कदापि नामैवाऽश्रूयत । श्रीपण्डितकेशवरामशर्मण वाऽत्र पुनरभिनवप्रक्रियाक्रमेण सञ्जात-प्रचुरप्रचार-योग्यताकं पाणिनीयं व्याकरणं प्रचारितं ब्राह्मणोचित आचारश्च संचारितः । श्रीपण्डितकेशवरामशर्मणोऽस्यां गृहीयपाठशालायां प्राप्तशिक्षा विद्यार्थिनो विश्वविख्याता राजाधिराज-वन्दितचरणा महापुरुषा विपश्चिदपश्चिमाः समपद्यन्त । एष चातीव प्रसिद्ध आमाणकस्तात्कालिक आसीत् “वदत्र पठिता विद्यावश्यं सफला भवति" इति, अत एव केचित्तु विद्या-साफल्य-लाभायैव किंचित् कालमत्रावश्यमधीयते स्म । प्राप्तकैवल्यानां महामहिम्नां पूज्पपादानां काशीस्थानां श्री १०८ विशुद्धानन्दसरस्वतीनां श्रद्धेयगुरवः श्री १००८ गौड़स्वामिमहाभागाः ( येषां पूर्वाश्रमनाम 'भगवान्दास' इति जन्मभूमिश्च पटियालाराज्यान्तर्गतं सनौर-नगरम् ) यौवनारम्भे श्रीकेशवरामशर्मणां सकाशात् मदूदग्रामेऽध्ययनं कृतवन्तः ( एतच्च काश्यां लहरी-प्रेसमुद्रिवाद विशुद्धचरितावलीयन्यात् सर्वमवगच्छामः ) एतेनैव सम्बन्धेनेकदा पंचाशता पण्डितैः

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 450