Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 491
________________ दामोदरगुप्तविरचितं इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य । वितरति कृच्छ्रेण चिराद्भावितमक्लिष्टहुंकारम् ॥ १०३०॥ का पुरुषार्थसमीहा द्योतयतः शर्वरी शशाङ्कस्य । तर्पयतां भुवमखिला सलिलमुचां कोऽभिकाङ्कितो लाभः।१०३२॥ विप्रलंभावस्थावर्णनमुपसंहरति इतीति । इति पूर्वोक्ताष्टार्याप्रकारेण, सहचर्या स्वमनोनिर्विशेषया सख्या, निगदिते कथिते सति, सा मंजरी, तस्याः सख्या: अभिमुखं, चिंतानिमीलिते लोचने समुन्मील्य उद्घाट्य, कृच्छ्रेण कष्टेन; चिरात् विलंबेन, न तु श्रवणोत्तरकाळमेव, इत्यर्यः, भावितं उत्पादितं, अक्लिष्टं स्पष्टं, हुंकारं-" हुमित्यंगीकारद्योतकमव्यक्तवर्ण नादमात्र, तदनुकरणत्वेन हुंकारशब्द: ।" इति नागानन्दविमर्शिन्याम् , वितरति, उत्तरे मौनावलंबनं कृत्वा केवलं हुंकारेणैव अनुमति दर्शयति इति भावः ॥ इयं जडताख्या नवमी स्मरदशा, यथोक्तं-" अकाण्डे यत्र हुंकारो, दृष्टिः स्तब्धा, गता स्मृतिः । श्वासाः समधिकाः, कार्य, मतेयं जडता, यथा ॥" (२।१५) इति शंगारतिलके, “ हुंकारः परमेक एव वचनस्थाने स्थित: सांप्रतम् । " इत्यपि तत्रैव जडतोदाहरणे; "प्रतिवाक्यप्रदानादिश्रुत्यालोकविवर्जनम् । तूष्णींभावो विचेतस्त्वं जडतायां भवन्ति हि ॥" इत्यन्यत्र ॥ अनया उपान्त्यदशया सा अमंगलशंकां प्रददातीति व्यज्यते ॥ अस्मिन् प्रकरणे मंजर्याः वाङ्मयतपोरूपमौनस्य (आ. १०३०), शारीरतपोरूपशरीरसंतापस्य (आ. १०२०-१०२१), मानसतपोरूपध्यानस्य (आ. १०११), जपस्य (आ.१०१६-१०१७) च उक्तेः विरहतापदशायां तपोरूपमारोपितं इति चातुर्यम् । तेन यं देवं प्रसादयितुं तया ध्यानादिकं कृतं, तेन त्वया सा न अनादर्तच्या प्रत्युत दयनीया अनुग्रहणीया च इति व्यज्यते ॥१०३०॥ एवं विवक्षितस्य मंजर्यनुरागस्य तन्मूलकविरहावस्थायाश्च कयनेन नायकमनसि प्रीतिमिश्रामनुकंपां समुत्पाद्य, तां शीघ्रं अनुग्राहयितुं सजनानां सहजस्वभावं स्मारयति केति द्वाभ्याम् । शर्वरीं रात्रिं, द्योतयतः ज्योत्स्नाभिः शोभा संपादयतः, शशांकस्य-शश: चंद्रलाञ्छनं " मत: शश इति क्वापि शीतांशोरपि लाञ्छने । " इति विश्वलोचने, स: अंक: चिहं भूषणं वा यस्य सः शशांक: चन्द्रः तस्य, का पुरुषार्यसमीहा धर्मादिषु चतुर्यु के साधयितुं इच्छा वर्तते, तत्करणे न कोऽपि तस्य स्वार्थविशेष: केवलं परोपकारधीः इति भाव., तदुक्तं प्रकारान्तरेण-" किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः १०३० इति कथिते (प. स्तं)। चिरादामा.... च्छी (प) चिरादाभाषितकृच्छ्हु ङ्कारम् (स्तं) १०१ कांक्षिते (गो) [प्रमादात् पाठः ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606