Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 501
________________ दामोदरगुप्तविरचितं > 66 धृतसुमनः शरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् । यामो वयं, न राजति विजनस्थितमिथुनसन्निधावपरः ॥ १०५१ ॥ एषा नृत्यश्रान्ता मदनेनायासिताऽतिसुकुमारा । त्वमपि रतिसमरशूरः, स्वर्गभुवः सन्तु कुशलाय ।।' १०५२ ।। पश्यति नराधमः । करोति रसभंगं वा कालसूत्रं व्रजेद्ध्रुवम् ॥” इति । ( कालसूत्रं एकविंशतिसंख्याकनरकेषु एकतमम् । ) अतोऽत्र मदवस्थानं रसभंगकारणं इति तदस्थाने इति अत: अपसरामि इत्यभिप्राय: ॥ ] ' नालिका भाग्यविहीना [ इति टिप्पणी चित्या ॥] १०५०॥ शुभाशंसनपूर्व तौ आपृच्छते धृतेति । धृतानि सुमनांसि पुष्पाणि एव शराः धनुः चापं च येन तादृशा कामदेवेन इत्यर्थः, कामस्य शराः पुष्पाणि इति प्रसिद्धं, तस्य धनुरपि मतभेदेन पुष्पमयं यथोक्तं - " धनुः पौष्पं, मौर्वी मधुकरमयी, चंचलदृशां दृशां कोणो बाणः • " इत्यादिकं, अत एव C पुष्पधन्वा इति तस्य नामान्तरं, तेन सहायवान् दत्तहस्तावलंब:, सहायोऽनुचरः समाः " इत्यमरः, सहायः नर्मसुहृत् क्रीडासचिवः इति भाव:, तेन युक्तः सन् अनेन " सहायसंपत्प्रभवा हि संपदः । " ( तंत्राख्यायिके ३।२१ ) इति राजनीत्यनुसरणं अपि आशंसितं, अतः भगवान् कामदेव एव ते मतिकर्मसचिवो भवतु, नान्यः कोऽपि प्राकृतो जनः इति भाव:, एतादृशः त्वं दयितया प्रेमभाजनेन मंजर्या, सार्धं सह, तिष्ठ वर्तस्व । वयं यामः औचित्योल्लंघनभीतेः युष्मदंतिकात् आत्मानं पृथक्करोमि निर्गच्छामि इत्यर्थः, उभयोः समागमकारित्वेन आत्मनि गौरवं आरोप्य वयं इति बहुवचननिदेश: । तत्र हेतुं व्यनक्ति विजनेति । विजने एकान्ते, स्थितं यत् मिथुनं युग्मं नाय - कनायिकारूपं दंपती वा, " मैथुने रतसंबंधौ, मिथुने युग्मदंपती । ” इति मंत्रकोशः, तस्य संनिधौ समीपे, अपरः अन्यः तृतीय: इति यावत्, न राजति न शोभते, तथास्थितस्य मूर्खत्वात् ग्रामीणत्वात् वा । तथा चोक्तं - " खादन्न गच्छामि, हसन्न जल्पे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् किं कारणं येन भवामि मूर्खः ॥” इति, तथा " मंते अत्थालोवे भेसजे भोयणे पियागमणे । वुच्चइ सो नागरिओ होइ अणुत्तो वि जो दूरे || ” ( ३६ ) ( मंत्रे अर्थालोचे भैषज्ये भोजने प्रियागमने । उच्यते सः नागरिकः भवति अनुक्तः अपि यः दूरे ॥ ) ( मंत्र: गुप्तवाद:, अर्थालोच: द्रव्यपरिगणनम् । ) इति रंभामंजरीनाटिकायाम् । तथा अमरुकशतकेऽपि - " निर्यातः शनकैरलीकवचनोपन्यासमालीजनः । " ( २७ ) इति ॥ १०५१ ॥ गमनसमये स्नेहसूचनविशिष्टप्रार्थनागर्भा आशिषं दत्ते एषेति । एषा १०५१ साकम् (प) । विजनस्थिति (गो) । स्थितसन्निधा० (१) १०५२ सुरतभुवः (१) " , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com ४३८

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606