Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 17
________________ भूमिका ७ ६. यदा तु भूतभविष्यद्विवक्षा, तदा यथायथं प्रत्यया भवन्त्येव (वि० प० ३।१।१६)। ७. यस्माद् विवक्षा गरीयसीत्याह - सुखार्थमेवेदमिति (दु० टी० ३।१।२१) । ८. लोकेष्वेवं विवक्षास्तीत्याह - सुखार्थमित्यादि । क्रियासमुच्चयेऽपि विवक्षया विभाषयेत्यर्थः (वि० प० ३।१।२१)। ९. अथ विवक्षा गरीयसीत्याह - अथवेति (क० च० ३।१।२३)। १०. यथा वाक्यं तथेदं विवक्षयेति मतम् (दु० वृ० ३।२।४) । ११. तस्याप्यस्थिचर्मावशेषतया मर्तुमिच्छतीति लोके विवक्षादर्शनात् (वि० प० ३।२।४)। १२. 'आचारार्थ विवक्षायाम् आयिप्रत्ययः (वि० प० ३।२।८ ) । १३. तथा हेत्वर्थविवक्षायामेव हन्तेरिन्नित्यर्थः (वि० प० ३।२।१० ) । १४. किन्तर्हि स्वयमेव एतदात्मानमभिनिर्वर्तयतीति विवक्षा (वि० प० ३।२।४२)। १५. कर्मभूतस्य साधनस्य कर्तृत्वविवक्षायां सत्यां कर्मत्वमपनीय कर्तृत्वं विवक्ष्यते (क० च० ३।२।४१ ) । १६. इनन्तात् परस्मैपदस्यैव विवक्षा - 'आस्ते माणवकः, आसयति माणवकम्’ (दु० टी० ३।२।१७) । १७. एष्वपि कर्तुः फलवद्विवक्षा ( वि० प० ३।२।१७)। ९. बहूनि कार्याणि व्याख्याकारैः सुखावबोधार्थं प्रतिपत्तिगौरवनिरासार्थं मन्दमतिबोधार्थं बालावबोधार्थं शङ्कानिरासार्थं रूढ्यर्थं मङ्गलाद्यर्थं च समादृतानि । एतेषां क्रमबद्धपरिचयार्थं वर्णानुक्रमेण सम्बद्धवचनानि प्रस्तूयन्ते - [ अगुणार्थम् - १] नाश्वो गर्दभतीति नञ्प्रयोगेऽपि विवक्षया भवतीत्यर्थः १. णकारोऽगुणार्थ : (दु० टी० ३।२।२४) । [ अनुक्तसमुच्चयार्थम् २] - २. चकारो ऽनुक्तसमुच्चयार्थः (दु० टी० ३।२।२८) । ३. “जपादीनां च” ( ३ | ३ | ३२ ) इत्यतश्चकारो मण्डूकप्लुत्या वर्तते सोऽनुक्तसमुच्चयार्थः इति (दु० टी० ३।३।३६)। [ इष्टार्थम् - ३] ४. वाशब्दस्येष्टार्थत्वाद् आयेश्च (दु० वृ० ३।२।८) । ५. वाशब्दस्येष्टार्थत्वादिति हेतुं वर्णयन्नाह (दु० टी० ३।२।८) । ६. आम्नायविरुद्धत्वाद् अनिष्टत्वाच्च साहचर्यमिष्टार्थमेव (क० च० ३।२।१८)।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 564