Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
मायूराजसमो जज्ञे नान्यः करचुलिः कविः । उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) हैहयवंशोद्भवाः करचुलि ( कलचुरि ) नामानः केचन क्षत्रिया अद्यापि ‘रीमा' (रेवा)। राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी तेषां राजधान्यासीत्. 'यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च चित्रभानुः । तामेष पाति कृतवीर्ययशोवतंसां माहिष्मती कलचुरेः कुलराजधानीम्॥' इति बालरामायणम् (३॥३५) मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगरा: दक्षिणदिशि पञ्चड्योजनान्तरे नर्मदादक्षिणतटेऽधुना 'महेश्वर' इति नाना प्रसिद्धा इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि कलचुरिराजधान्यासीत्. 'सीतास्वयंवरनिदानधनुर्धरेण दग्धात्पुरत्रितयतो विभुना : भवेन । खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरी प्रशास्ति ॥' इत्यपि बालरामायणम् (३।३८). त्रिपुरी चेदिनगरी' इति हैमनाममाला (४।४१) राजशेखरकृतविद्धशालभजिकाकथानायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामासीत्. 'करचुलितिलको वर्तते चक्रवती' इति, 'खस्तिश्रीमत्रिपुर्या तुहिनकर सुतावीचिवाचालितायाम्' इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते, तुहिनकरसुता सोमोद्भवा नर्मदा. सा च त्रिपुरी इदानीं 'तेवुर' इति नाना प्रसिद्धा जबलपुरसमीपे वर्तते इति दक्षिणदेशेतिहासपुस्तके ( ३७ पृष्ठे) पण्डितवरभाण्डारकरः करचूलिवंशोद्भवोऽयं मायूराजक विश्वेदिदेश एवोत्पन्नः स्यात्. 'गण्डूषाशोषिताब्धिप्रकटजलधरोत्फालजातस्मितानां हेलाकृष्टार्कचन्द्राभिनवकृतमहाकुण्डलाभोगभाजाम् । पीनोरःस्थापिताशाद्विरदमदमषीमांसलस्थासकानां दूरं यातस्य वत्स स्मरति दशशिरास्त्वच्छिशुक्रीडितानाम् ॥' इत्याद्याः केचन श्लोका मायूराजनाम्ना समुद्धृताः सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोकनेन च मायूराजः कस्यचिद्रामायणकथानुकूलनाटकस्य कर्तासीदिति ज्ञायते.
(वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम् ।
आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥) मेण्ठो हस्तिपकः; (पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृहीतनामा कश्मीर देशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमादित्यसमकालीनो भर्तृमेण्ठः

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 184