Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 12
________________ ११ ' पयः पृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः, इति जाम्बवतीविजयवा क्यम्', 'स पार्षदैरम्बरमापुपूरे, इति जाम्बवत्यां पाणिनिः' इत्यादि जाम्बवतीजयकाव्य पयैकदेशा मुकुटेनामरकोषटीकायामुदाहृताः सन्ति. ' तथाहि पाणिनेः पातालविजये महाकाव्ये— संध्यावधूं गृह्य करेण' इत्यादि काव्यालंकारटीकायां नमिसाना चोदाहृतम् तेन जाम्बवतीजयस्य पातालविजयमित्यपि नामान्तरं भाति, सुभाषितावलि-सदुक्तिकर्णामृतादिषु बहवः पाणिनिश्लोकाः प्राप्यन्ते. 'स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । चमत्कारै कसाराभिरुद्यानस्येव जातिभिः ॥' इति सुवृत्ततिलकस्थक्षेमेन्द्र श्लोकेनोपजातिच्छन्दोनिबद्धाः पाणिनिश्लोका अत्युत्तमाः सन्तीति ज्ञायते. य एव व्याकरणसूत्रकर्ता स एव जाम्बवतीजयकाव्यस्य कर्तेत्यस्माद्राजशेखर श्लोकात्स्फुटं प्रतीयते तस्मात्पाणिनिद्वयकल्पनं व्यर्थमेव. प्रद्युम्नानापरस्येह नाटके पटवो गिरः । प्रद्युम्न्नान्ना परस्येह पौष्पा अपि शराः खराः ॥ (सूक्तिमुक्तावलिः. सहर्षचरितारब्धाद्भुतकादम्बरीकथा । बाणस्य वाण्यनार्येव स्वच्छन्दा भ्रमति क्षितौ ॥ बाणेन हृदि लग्झेन यन्मन्दोऽपि पदक्रमः । प्रायः · कविकुरङ्गाणां चापलं तत्र कारणम् ॥ (सूक्तिमुक्तावलिः. ) सूक्तीनां स्मरकेलीनां कलानां च विलासभूः । प्रभुदेवी कविर्लाटी गतापि हृदि तिष्ठति ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः . ) कृत्स्नप्रबोधकृद्वाणी भा रवेरिव भारवेः । माघेनेव च माघेन कम्पः कस्य न जायते ॥ ( सुभाषितहारावलिः . )

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 184