________________
११
' पयः पृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः, इति जाम्बवतीविजयवा क्यम्', 'स पार्षदैरम्बरमापुपूरे, इति जाम्बवत्यां पाणिनिः' इत्यादि जाम्बवतीजयकाव्य पयैकदेशा मुकुटेनामरकोषटीकायामुदाहृताः सन्ति. ' तथाहि पाणिनेः पातालविजये महाकाव्ये— संध्यावधूं गृह्य करेण' इत्यादि काव्यालंकारटीकायां नमिसाना चोदाहृतम् तेन जाम्बवतीजयस्य पातालविजयमित्यपि नामान्तरं भाति, सुभाषितावलि-सदुक्तिकर्णामृतादिषु बहवः पाणिनिश्लोकाः प्राप्यन्ते. 'स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । चमत्कारै कसाराभिरुद्यानस्येव जातिभिः ॥' इति सुवृत्ततिलकस्थक्षेमेन्द्र श्लोकेनोपजातिच्छन्दोनिबद्धाः पाणिनिश्लोका अत्युत्तमाः सन्तीति ज्ञायते. य एव व्याकरणसूत्रकर्ता स एव जाम्बवतीजयकाव्यस्य कर्तेत्यस्माद्राजशेखर श्लोकात्स्फुटं प्रतीयते तस्मात्पाणिनिद्वयकल्पनं व्यर्थमेव.
प्रद्युम्नानापरस्येह नाटके पटवो गिरः । प्रद्युम्न्नान्ना परस्येह पौष्पा अपि शराः खराः ॥
(सूक्तिमुक्तावलिः.
सहर्षचरितारब्धाद्भुतकादम्बरीकथा । बाणस्य वाण्यनार्येव स्वच्छन्दा भ्रमति क्षितौ ॥ बाणेन हृदि लग्झेन यन्मन्दोऽपि पदक्रमः । प्रायः · कविकुरङ्गाणां चापलं तत्र कारणम् ॥
(सूक्तिमुक्तावलिः. )
सूक्तीनां स्मरकेलीनां कलानां च विलासभूः । प्रभुदेवी कविर्लाटी गतापि हृदि तिष्ठति ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः . )
कृत्स्नप्रबोधकृद्वाणी भा रवेरिव भारवेः । माघेनेव च माघेन कम्पः कस्य न जायते ॥
( सुभाषितहारावलिः . )