________________
तरलो हारमध्यमणिरपि अयमपि कवी राजशेखरस्य पूर्वपुरुषः पूर्वमकालजलदश्लोकटिप्पणे लिखितं बालरामायणप्रस्तावनापद्यं विलोकनीयम्. राजशेखरोऽप्यात्मानं यायावरकुलोत्पन्नमेव खग्रन्थेषु वर्णयति.
कर्तुं त्रिलोचनादन्यः कः पार्थविजयं क्षमः । तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥
(सुभाषितहारावलिः.) त्रयोऽमयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ।।
(शार्ङ्गधरपद्धतिः, सुभाषितहारावलिः.) दशकुमारचरितम् , काव्यादर्शश्चेति प्रबन्धद्वयमेव लभ्यते. मल्लिकामारुतकर्ता तूहुण्डापरनामा रङ्गनाथकविः, न तु दण्डी. कलापरिच्छेद-च्छन्दोविचित्यादयःसन्त्यन्येऽपि दण्डिकृता ग्रन्था इति काव्यादर्शाज्ज्ञायते. कविरयं सप्तमशतकप्रारम्भसमुद्भुतः.
सरखतीपवित्राणां जातिस्तत्र न कारणम् । व्यासस्पर्धी कुलालोऽभूद्यद्रोणो भारते कविः ॥
(शार्ङ्गधरपद्धतिः.) पुस्तकान्तरे 'न देहिनाम्' इति पाठः.
द्विसंधाने निपुणतां स तां चक्रे धनंजयः। यया जातं फलं तस्य सतां चके धनं जयः ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) वसुदेवश्रीदेवीसूनुर्द्विसंधान काव्यकर्तायं धनंजयमहाकविर्जन आसीत्. राघवपाण्डवीयमपि द्विसंधानकाव्यस्य नामान्तरम्. कविराजकृतं प्रसिद्ध मुद्रितं च राघवपाण्डवीयकाव्यं मिन्नम्. . खस्ति पाणिनये तस्मै यस्य रुद्रप्रसादतः । आदौ व्याकरणं काव्यमनु जाम्बवतीजयम् ॥
(सूक्तिमुक्तावलिः; सुभाषितहारावलिः.)