________________
दूरादपि सतां चित्ते लिखित्वाश्चर्यमञ्जरीम् । कुलशेखरवर्मा भ्यां(?) चकाराश्चर्यमञ्जरीम् ॥
(सूक्तिमुक्तावलिः.) आश्चर्यमञ्जरी कश्चन ग्रन्थः. 'पाणिनिप्रत्याहारो वा महाप्राणसमाश्लिष्टो झषालिजितश्च समुद्रः, इत्याश्चर्यमञ्जरी' इत्यमरकोषटीकायां वारिवर्गे झषपदव्याख्याने मुकुटः. 'केरलोत्पत्ति-केरलविशेषमाहात्म्यनामकग्रन्थाभ्यां समुद्धृते कस्मिंश्चन लेखे केरलदेशक्षितिपालः कुलशेखरः ३३२ मिते ख्रिस्तसंवत्सरे आसीदिति दर्शितम्' इति वामन-शिवराम-आपटे प्रणीतायां राजशेखरवर्णनपुस्तिकायां १३ पृष्ठे टिप्पण्यां द्रष्टव्यम्. कुलशेखरनृपतिकृता मुकुन्दमाला प्रसिद्धव. कुलशेखर एव राजशेखर इति मिथ्यैव केरलीयानां प्रवादः, यतो राजशेखरेणात्र कुलशेखरो वर्णितः.
आदौ गणपतिं वन्दे महामोदविधायिनम् । विद्याधरमणेर्यस्य पूज्यते कण्ठगर्जितम् ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) . 'महामदविधायिनम्' इति पुस्तकान्तरपाठः.
हुता शिखिनि गौणाढ्या स्तोकशेषापि सा कथा । सुरलीढेन्दुलेखेव लोके पूज्यतमाभवत् ।
(सुभाषितहारावलिः.) गुणाढ्यप्रणीता बृहत्कथा षड्लक्षमितामौ दग्धा, केवलमेकलक्षमितावशिष्टा, इति कथासरित्सागरेऽष्टमतरङ्गे कथा द्रष्टव्या.
अनुप्रासिनि संदर्भे गोनन्दनसमः कुतः । यथार्थनामतैवास्य यद्वाग्वदति चारुताम् ॥
(सूक्तिमुक्तावलिः.). यायावरकुलश्रेणेहरयष्टेश्च मण्डनम् । सुवर्णबन्धरुचिरस्तरलस्तरलो यथा ॥
(सूक्तिमुक्तावलिः, मुभाषितहारावलिः.)