Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 174
________________ सोमशम्भुरचिता। १५६ पश्चत्रिंशत्तथैवाष्टौ पञ्च त्रीणि यथाक्रमम् ॥१५२८॥ एषां तत्त्वं तदेशानां मन्त्रा दिङ्मावतो यथो । हां शक्तितत्त्वाय नमः, डों हां शक्तितत्त्वाधिपाय नमः इत्यादि । डों हां मामूर्तये नमः, उगे हां मामूर्त्यधिपतये ब्रह्मणे नमः, डों हां शिवतत्त्वाय नमः, डों हां शिवतत्त्वाधिपतर रुद्राय नमः । नाभिकन्दात्समुच्चार्य घण्टानादविसर्पिणम् ॥१५२६॥ ब्रह्मादिकारणत्यागाद्वादशान्तसमाश्रितम् । मन्त्रं च मनसा भिन्न प्राप्तानक्षरमोगमात् (१) ॥१५३०॥ द्वादशान्तात्समानीय निष्कलं व्यापकं शिवम् । अष्टात्रिंशत्कलोपेतं सहस्रकिरणोजपलम् ॥१५३१॥ सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निरोधयेत् । जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ॥१५३२॥ पिण्डिकादिषु च न्यासं ......संपदस्तथा । पिण्डिकां च कृतस्त्रानां विलिप्तां चन्दनादिभिः ॥१५३॥ पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थिताम् । लिङ्गवत्कृतविन्यासां विधिवत्तु प्रपूजयेत् ॥१५३४॥ कृतस्नानादिकांस्तद्वल्लिङ्गमूले शिवं न्यसेत् । कृतस्नानादि संस्कार शक्त्यन्तं वृषभं यथा ॥१५३५॥ प्रणवपूर्व हां. हूं ही मध्यादन्यतमेन च । क्रियाशक्तिनिभां पिण्डी शिलामाधाररूपिणीम् ॥१५३६॥ भसदर्भतिलैः कुर्यात्प्राकारत्रितयं ततः ।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208