________________
सोमशम्भुरचिता।
१५६ पश्चत्रिंशत्तथैवाष्टौ पञ्च त्रीणि यथाक्रमम् ॥१५२८॥ एषां तत्त्वं तदेशानां मन्त्रा दिङ्मावतो यथो ।
हां शक्तितत्त्वाय नमः, डों हां शक्तितत्त्वाधिपाय नमः इत्यादि । डों हां मामूर्तये नमः, उगे हां मामूर्त्यधिपतये ब्रह्मणे नमः, डों हां शिवतत्त्वाय नमः, डों हां शिवतत्त्वाधिपतर रुद्राय नमः ।
नाभिकन्दात्समुच्चार्य घण्टानादविसर्पिणम् ॥१५२६॥ ब्रह्मादिकारणत्यागाद्वादशान्तसमाश्रितम् । मन्त्रं च मनसा भिन्न प्राप्तानक्षरमोगमात् (१) ॥१५३०॥ द्वादशान्तात्समानीय निष्कलं व्यापकं शिवम् । अष्टात्रिंशत्कलोपेतं सहस्रकिरणोजपलम् ॥१५३१॥ सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निरोधयेत् । जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ॥१५३२॥ पिण्डिकादिषु च न्यासं ......संपदस्तथा । पिण्डिकां च कृतस्त्रानां विलिप्तां चन्दनादिभिः ॥१५३॥ पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थिताम् । लिङ्गवत्कृतविन्यासां विधिवत्तु प्रपूजयेत् ॥१५३४॥ कृतस्नानादिकांस्तद्वल्लिङ्गमूले शिवं न्यसेत् । कृतस्नानादि संस्कार शक्त्यन्तं वृषभं यथा ॥१५३५॥ प्रणवपूर्व हां. हूं ही मध्यादन्यतमेन च । क्रियाशक्तिनिभां पिण्डी शिलामाधाररूपिणीम् ॥१५३६॥ भसदर्भतिलैः कुर्यात्प्राकारत्रितयं ततः ।