Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
सोमशम्भुरचिता।
१६५ त्र्यंशेन ब्रह्मभागस्य यद्वा त्र्यंशद्वयेन च । अर्धेनार्धाष्टमांशेन. सर्वस्वाथ प्रवेशनम् ॥१५८८।। विधायामीभिर्दीर्घाभिः ........... सुसमाहितः । श्वभ्रं वालुकयापूर्य भवेदिति ................. ॥१५-६॥ ततो लिङ्गे स्थिरीभूते ध्यात्वा मकलरूपिणम् । मूलमुच्चार्य शक्त्यन्तं स्पृष्ट्वा तं निष्कलं न्यसेत्॥१५६०॥ स्थाप्यमानं यदा लिङ्गं यां यां दिशमुपाश्रयेत् । तोवदिशीशमन्त्रेण पूर्णान्तं दक्षिणाचितम् ।।१५११॥ शब्दोत्थाने च वक्त्रेण भ्रान्तेन स्फुटितोऽपि च । जुहुयान्मूलमन्त्रेण बहुरूपेण वा शतम् .. १५६२।। किं चान्येष्यपि देशेषु शिवशान्ति समाश्रयेत् । उक्तन्यासविधि लिङ्ग कुर्वन्नेवं ....... व तत् ॥१५६३॥ पीठबन्धमतः कृत्वा लक्ष्मणस्पर्शलक्षणम् । गौरीमन्त्रालयं नीत्वा स्पृष्ट्वा पिण्डे च विन्यसेत् ।।१५६४॥ संपूर्य पाशसन्धि च वालुकावज्रलेपतः । ततो मूर्तिधरैः साधं गुरुः शान्तिघटार्घतः ॥१५६५।। संसाप्य कलशैरन्यैस्तद्वत्पञ्चामृतादिभिः । विलिप्तैश्चन्दनाद्यैश्च संपूज्य जगदीश्वरम् ॥१५६६॥ उमामहेशमन्त्राभ्यां तां स्पृशेल्लिङ्गमुद्रया । ततस्त्रितत्त्वविन्यासं. षडध्वादिपुरःसरम् , ॥१५६७॥ कृत्वा मति दिगीशानामङ्गानों ब्रह्मणा सह ।

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208