Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 202
________________ सोमशम्भुरचिता। १८७ गार्ये कुले समुदितो विततावदात-. विद्याविशेषकुशलश्रुतशीलवान्यः ॥१८१०॥ श्रीमानसौ सोमशिवाभिधानो दिक्चक्रवालोदरगीतकीर्तिः । शैवागमज्ञो मुनिवृन्दवन्ध श्चके क्रियाकाण्डपदक्रमावलीम् ॥१८११॥ क्व तावकीनागमबोधविक्लवा द्वयं क्व शैवागममारपद्धतिः। व्यदृब्ध चैनां खलु सर्वकारणं त्वदिच्छयैवेति शिव क्षमस्व मे ॥१८१२॥ श्रीविक्रमार्कनृपकालसमुद्भवेषु शून्याग्निभिः समधिकेषु च तच्छतेषु । एकादशस्वमलशास्त्रमिदं(११३०) समस्तं ग्रन्थस्य देशिकमतस्य सहस्रयुग्मम् ॥१८१३॥ ईशाननामा शिवतुल्यधामा तस्यापि शिष्यो विमलेशनामा । तस्यापि शिष्यः स शिवाभिधानस्तस्यापि शिष्यः खलु सोमशंभुः ॥१८१४॥ इति सोमशम्भुसंगृहीता कर्मकाण्डक्रमावली समाप्ता ॥ १ 'बुधभूत' ग. । २ 'कृतानुकारोगमवेधिक्लिवाद्वयं ग.।

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208