________________
सोमशम्भुरचिता।
१८७
गार्ये कुले समुदितो विततावदात-.
विद्याविशेषकुशलश्रुतशीलवान्यः ॥१८१०॥ श्रीमानसौ सोमशिवाभिधानो
दिक्चक्रवालोदरगीतकीर्तिः । शैवागमज्ञो मुनिवृन्दवन्ध
श्चके क्रियाकाण्डपदक्रमावलीम् ॥१८११॥ क्व तावकीनागमबोधविक्लवा
द्वयं क्व शैवागममारपद्धतिः। व्यदृब्ध चैनां खलु सर्वकारणं
त्वदिच्छयैवेति शिव क्षमस्व मे ॥१८१२॥ श्रीविक्रमार्कनृपकालसमुद्भवेषु
शून्याग्निभिः समधिकेषु च तच्छतेषु । एकादशस्वमलशास्त्रमिदं(११३०) समस्तं
ग्रन्थस्य देशिकमतस्य सहस्रयुग्मम् ॥१८१३॥ ईशाननामा शिवतुल्यधामा
तस्यापि शिष्यो विमलेशनामा । तस्यापि शिष्यः स शिवाभिधानस्तस्यापि शिष्यः खलु सोमशंभुः ॥१८१४॥ इति सोमशम्भुसंगृहीता
कर्मकाण्डक्रमावली समाप्ता ॥ १ 'बुधभूत' ग. । २ 'कृतानुकारोगमवेधिक्लिवाद्वयं ग.।