________________
१८६
कर्मकाण्डक्रमावली ईशखाग्नीमृगश्चैव पितृभोगमरुत्पतिः । ईशादीशान्तकोणेषु साद्विपदनायकः ॥१८०१॥ पर्जन्याद्यास्तु पादस्था आपाद्याः पादयुग्मगाः । भानुभाद्या भरोच्याद्या ब्रह्मा पत्रिशदंशगः ॥१८०२॥ चरक्याद्या बहिः पूज्याः स्कन्दाद्याश्चापि पूर्ववत् । यजेत्कालोग्निमम्भोजें कूपाद्वारुणमण्डपे ॥१८०३।। पूर्वोक्तेन विधानेन रौप्यनागाष्टकं वृहत् । हुत्वा तेभ्यो बलिं दत्त्वा कूपे रत्नादि निक्षिपेत् ॥१८०४॥ प्रोत्याच्छाद्याम्बुनो शान्त्यै यजमानं ततो गुरुः । गुरुं मन्तोषयेत्कर्ता गोहिरण्याम्बुनादिभिः ।।१८०५।। भोजनानि ततो दद्याद्यथासामर्थ्यमर्थिनाम् । कूपवत्सर्वखातानां विधिः कार्यो विजानता ॥१८०६।। इति कूपप्रतिष्ठा ॥ अथ वृक्षप्रतिष्ठायां हवनं सधृतैस्तिलैः । आरामोद्यानयोक्षान्पूर्वेशदिशि मण्डले ॥१८०७॥ स्नपनं पूजनं न्यासं स्वेन स्वेनाणुना चरेत् । वृक्षाधिदेवताप्रोत्यै दद्यात्पूर्णाहुतिं गुरुः ॥१८०८॥ कर्ता संतोषयेत्पश्चादाचार्यान्ब्राह्मणानपि । बन्धून् मित्राणि दीनाश्च भोजयेत्तोपयेदपि ॥१८०६।। श्रीशैवशासनमहाम्बुधिरत्नभूत
सर्वोत्तमाधिकरण करणैकचेताः ।