Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं ॥ ३६ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
स्वामी गृहं ययौ । विशेषात् तापसः क्रुद्धो, ज्ञानं मिध्यादृशां कुतः ? ||२३|| मृत्वा मेघकुमारेषु, कठो भवनवासिषु । असुरो मेघमालीति, नामतः समजायत ।। २४ ।।
(सू० १५८) 'जे केई उवसग्गा' ० ॥ द्वितीयेऽह्नि प्रभुः कोपकटाख्ये सन्निवेशने । अपारयत् पायसेन, धन्यस्य गृहिणो गृहे ॥१॥ विहरनेकदा स्वामी, नगरासन्नवर्त्तिनम् । तापसाश्रममायातो, ययौ चास्तं दिवाकरः ||२|| तत्रोपकूपं न्यग्रोधतरुमूले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥ ३ ॥ ततः पार्श्वमुपद्रोतुं भेत्तुमद्रिमिव द्विपः। अमर्षान्धः समायातो, मेघमाली सुराधमः || ४ || विकृतास्तेन वैतालाः, शार्दूला वृचिका द्विपाः । नाचाली तैरपि ध्यानात्, मर्यादाया इवोदधिः ||५|| विशेषेण ततः क्रुद्धो, मेघमाली सुरः स्वयम् । विचक्रे गगने मेघान्, कालरात्रिसहोदरान् ॥ ६ ॥ प्रारेभे वर्षितुं मेघमाली कल्पान्तमेघवत् । ब्रह्माण्डं स्फोटयन्तीव, विद्युच्च व्यानशे दिशः ॥ ७ ॥ क्षणादाकण्ठमम्भोऽभूत्, श्रीपार्श्वस्वामिनस्तदा । नासाग्रन्यस्तदृग्ध्यानात्, | मनागपि चचाल न ||८|| आनासाग्रं यावदम्भः, श्रीपार्श्वस्वामिनोऽभवत् । धरणस्योरगेन्द्रस्यासनं तावदकम्पत ||९|| महिषीभिस्ततः साकं, नागराजः समाययौ । नत्वा चक्रे प्रभुं शीर्षे, फणानथ प्रभूपरि ||१०|| तन्महिष्योऽपि नाथाग्रे, वेणुवीणादिबन्धुरम् । विदधुर्गीतनृत्यादि, भक्तिभावितचेतसः ॥ ११ ॥ ज्ञात्वाऽवधेरमर्षेण, वर्षन्तं मेघमालिनम् । निरीक्ष्य कुपितो नागराजः साक्षेपमत्रवीत् ।।१२।। अरे! किमिदमारब्धमात्मानर्थाय दुर्म्मते । कृपालोरपि भृत्योऽहं, सहिष्येऽतः परं न हि ||१३|| प्रभोः सदुपदेशोऽपि, तत्र वैरायते तदा । लवणायोपरावत्यां वारि वारिमुचामित्र ||१४|| मेघमाली ततो मीतः, प्रभुं शरणमाश्रितः । प्रणम्य स्वामिनं सर्वेऽप्यगुः स्थानं निजं निजम् ॥ १५ ॥ श्रीपार्श्ववृत्तम् ॥
For Private And Personal Use Only
श्रीपार्श्वोपसर्गः
॥ ३६ ॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54