Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
॥ ४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दसऽज्झयणा । वेयालियाइ ठविया तम्हा दसकालियं णामं ॥२॥ छहिं मासेहिं अहीयं अज्झयणमिणं तु अजमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ||३|| आणंदमुप्पायं कासी सिअं भवा तर्हि थेरा । जसमद्दस्स य पुच्छा कहणा अ विआला संघे | ॥ ४ ॥ क्रमेण श्रीयशोभद्रं स्वपदालङ्कृतीकृत्य श्रीवीरादष्टानवति९८ वर्षेः स्वर्जग्मुः । श्री यशोभद्रस्य द्वौ शिष्यौ-श्रीभद्रबाहुश्री सम्भूतिविजयौ, उवसग्गहरं थुत्तं काऊणं जेण संघकल्लाणं । करुणापरेण विहियं स भद्दबाहू गुरू जयउ || १ || अत्र श्रीस्थूलभद्रो द्वादश वर्षाणि यावत्कोशागृहे स्थितः, तदन्ते कोशागृहानन्देना कार्य मुद्रादानाय अभ्यर्थितः पितृमरणं मनसि सम्भाव्य स्वयं दीक्षां गृहीतवान्, पश्वाच श्री सम्भूतविजयपार्श्वे गत्वा व्रतप्रतिपत्तिः, तेषामादेशात्कोशागृहे चतुर्मासं कृतवान्, तं भगवन्तं स्वपदे न्यस्य श्री सम्भूतिविजयः श्रीवीरात् १७० वर्षे श्रीभद्रबाहुश्च स्वर्गालङ्कारोऽजायत । गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालसूनुः (नन्दनः) ॥१॥ योऽसौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रकृतप्रचारः । कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः || २ || वेश्या रागवती सदा तदनुगा पड्मी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् || ३ || रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपञ्चम चन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतोऽसि ||४|| श्री नन्दिषेणरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः। ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् १ ||५|| श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भट|मेकमेव । देवोऽद्रिदुर्गमधिरुहा जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ||६|| स्त्रीविभ्रमैश्वलितलोलमना न धीरः, श्रीस्थू
For Private And Personal Use Only
AO
श्रीस्थूलभद्रः
॥ ४६ ॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54