Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit श्रीकल्पसमर्थनस्योपक्रमः। उपादीयतामुभाकर्णिमूर्धन्याः! कल्पसमर्थनाख्योऽयं ग्रन्थो भवद्भिः, एतस्य रचनाकालः वैक्रमीयत्रयोदशशताब्द्याः परतः सप्तदशवैक्रमीयशताब्द्याश्चार्वागभूदिति ज्ञायते, यतः श्रीमन्तस्तपोगच्छीयाः काञ्जिकं पानकाहारे जगृहुः, शास्त्रोक्तं च तद्ब्रहणं तथापि शास्त्रोत्तीर्णपथमूला जिनप्रभाद्याः खरतरा आंचलिकाश्च तबिराचस्तत्समाधानं शास्त्रोक्तिपुरस्सरं कुर्वन्तः अच्छुत्तिरूपं तत्कल्पितदोषमपि निराचक्रुः, नायं ग्रन्थः श्रीपर्युषणाकल्पस्य सूत्राणां व्याख्यानपरः,ततो नास्य पर्युषणाकल्पस्य चूर्ध्या टीप्पनेन च गतार्थता, कल्पवृत्तयः किरणावल्यादयस्तु परस्तादेवास्मादाविर्भूता इति मिथः तुलनाकर्तृणां न नवीनं,मूलसूत्राणामेषां सुगमतामाकलय्य अन्तरधिकारा एव ग्रथिता ग्रन्थकारैः, के एते इति प्रश्नसमाधानं तु तथाविधस्यात्रान्यत्र चोल्लेखस्याभावान कथयितुं शक्यते, परं शासनधुरन्धरस्य या कांजिकविषया सामाचारी पोषिता सेति निर्विवादमेव श्रीमतामतपोगच्छीयत्वं,ग्रन्थकाराश्चेमे यथार्थसंधा इति न किमपि सूत्रं व्याख्यातवन्तः, किंच नेते संमृछिमाचार्यवत्परम्परानुगतयावञ्जम्बूकसमा मिथ्याख्यातिसंतोषिणः, न च शास्त्रानुसारिपरपरागतमतलोपकाः, यथेदानींतना उपस्थापनोत्थापकपानकाकारपलापिपवित्रतमसौराष्ट्रानार्यताप्रतिपादकयोगोत्थापनाप्रवीणात्मारामानुगताः शास्त्रानुसारिपरंपरागततिथिमर्यादालोपलोलुपा अष्टमाटामेदवादिनी दानप्रेमरामजम्बकाद्याः, किंतु शास्त्रानुसारितपोगछसामाचारीसमाचरणचतुराः, अत एव कांजिकपक्षं समर्थयामासुः सामाचार्या, विशेषस्त्वेतदीयो ग्रन्थावलोकनबललभ्य एवेति सुधियः स्वयमेवावभोत्स्यन्ते इति विलोकनयाचनं तस्माद्वरमित्यर्थयते शास्त्रानुगं श्रीसंघमिति । जामनगर वि. सं. १९९४ मार्गशीर्षशुक्ला तृतीयायां आनन्दसागरः For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 54