Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 266
________________ - - टुर्बलवंशसम्भवो जनः, ' मौलम्'-मूले जीतम् , 'राजन्यकं'-राजसम्बधिनम् पुरुषम्, 'प्रशास्ति'-शासनविषयं करोति, परन्तु ' यदा'-यस्मिन्काले, 'कश्चित् '-कोऽपि, 'तदुक्तं न करोति '-दुर्वलवंशोत्पन्नपुरुपकथनं न मन्यते, तदा 'स'तत् कथनाऽमंता जनः, 'तेन '-राज्यस्थितदुर्बलवंशसम्भवपुरुषेण, 'नन्दवदेव'-नन्दनामकराजतुल्यत्वेनैव, 'शास्यते - शिक्षां दाप्यते, दण्ड्यत इतिभावः ।। ३२-३३॥ मूलम्-विचार्यते चेन्मनसा मनुष्य-मौलो गुणी राजसुतः स योग्यः।। परन्तु यः क्षुद्रकुलोऽपि राजा, स एव सेव्यः खलु पञ्चपूजितः ॥ ३४ ॥ टीका-उक्तविषयमेव स्पष्टयति-विचार्यत इत्यादिना उक्तदशायाम् 'चेत्'-यद्यपि, ‘मनसा'-हृदयेन, 'मनुष्यैःजनैः, एतत् ' विचार्यते '-चिन्त्यते, ' यत्'-यः, 'मौलः '-मूलभवः, तथा 'गुणी '-गुणयुक्तः, 'राजसुतः'-राज18 पुत्रोऽस्ति, 'स:'-राजपुत्रः, ' योग्यः'-अर्हः, शासनयोग्य इतिभावोऽस्ति, परन्तु तथापि 'खल्वि' ति निश्चयेन, या 'क्षुद्रकुलोऽपि'-नीचवंशोत्पन्नोऽपि, ‘पञ्चपूजितः'-पञ्चजनार्चितः, 'राजा'-नृपो भवति, 'सः'-पूर्वोक्त एव, 'सेव्यः'सेवनाहः, सर्वजनैः प्रभुत्वेन मानार्ह इतिभावः ॥ ३४ ॥ मूलम्-एवं हि चिन्तामणिमुख्यमेतद्, वस्तु प्रधानं निजकस्वभावात् । ततोऽपि मान्यं भुवि पारमेश्वरं, बिम्बं यतः पञ्चभिरत्र पूजितम् ॥ ३५॥ टीका-दार्टान्तविपयमाह-एवमित्यादिना ' ही 'ति निश्चयेन, 'एवम् ‘-अनया रीत्या, 'एतत् '-पूर्वोक्तम् , GHOSSROSSROSSES

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333