Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 280
________________ फलाय भवति, 'अथे ' ति-अनन्तरे, 'यदि'-चेत् , ' कश्चिदंगी'-कोऽपि प्राणी, ' ईशं निन्देत् '-ईशस्य निन्दा कुर्यात् , तर्हि 'जनतासमक्षं'-जनसमूहसम्मुखे, 'सैव'-निन्दकजन एव, सोविलोपे इत्यादिना चरणपूर्ती, लोपेऽपि सन्धिः, 'दुःखीस्यात्'-दुःखयुक्तो भवति ॥ १७॥ . मूलम्-स्तुतेऽधिकं स्यान्नहि सावभौमे, विनिन्दितेऽस्मिंस्तु न किञ्चिदूनम् । नैवं प्रभौ पूजननिन्दनाभ्या-माधिक्यहानी स्त इमे तु कर्तुः ॥१८॥ टीका-दृष्टान्तविस्पष्टनपूर्वकं दार्टान्तविषयमाह-स्तुतेऽधिकमित्यादिना यथा 'सार्वभौमे'-चक्रवर्तिनृपे, 'स्तुते'- 8 स्तुतिं नीते सति, 'सः'-सार्वभौमः, 'अधिकं न हि स्यात् '-अधिको न भवति, वृद्धिं न यातीत्यर्थः, 'तु'-पुनः, 'अस्मिन्'सार्वभौमे, 'विनिन्दिते'-कुत्सां नीते सति, 'सः'-सार्वभौमः, 'किञ्चिदूनम् '-किमपि न्यून, 'न भवति'-कथमपि हानि न यातीत्यर्थः, हार्टान्ते घटनामाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'पूजननिन्दनाभ्याम्'-अर्चाकुत्साभ्यां, 'प्रभौ'-परमेश्वरे, 'आधिक्यहानी न स्त:'-उपचयापचयो न भवतः, 'तु'-किन्तु, 'इमे'-आधिक्यहानी, 'कर्तुःकारकस्य, अर्चाकुत्साकारकस्य जनस्येतिभावः, स्तः, पूजनकर्तुर्जनस्याऽऽधिक्यं निन्दनकर्तुश्च जनस्य हानिर्भवतीतिभावः ॥१८॥ मूलम् यद्वा पुनः कश्चिदपथ्यपथ्या-हारीह दुःखं च सुखं च भुङ्क्ते । न स्तस्तु ते आहृतवस्तुनो यद्, एवं च सिद्धार्चनमात्मगामि ॥१९॥ टीका-उदाहरणान्तरपूर्वकमुक्तविषयं निगमयति-यद्वेत्यादिना ' यद्वा'-अथवा, 'पुनरि 'ति समुच्चये, यथा

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333