Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 293
________________ ये योगिनो द्रव्यपरिग्रहेण, विना विभान्तीह भवे महान्तः।। तेषां त्वधीशस्मृतिरेव युक्ता, तयैव तत्स्वार्थकृतिः समस्ता ॥ २३ ॥ टीका-अस्योत्तरमाह-साधूच्यत इत्यादिना ' हे साधुजन !' हे श्रेष्ठजन !, त्वया ' इदं '-पूर्वोक्तं वचनं, 'साधूच्यते'-प्रशस्तं कथ्यते, ' परं'-परन्तु, 'अत्र'-अस्मिन् विषये, पूजानामजापविषयमित्यर्थः, 'महद्भिः'-महात्मभिजनैः, 'विवेककृतः'-विवेचनम् कृतमस्ति, अधिकारभेदेनोक्तविषययोर्मेदः प्रतिपादित इत्यर्थों भेदमेव दर्शयति-इम इत्यादिना 'खल्वि 'ति निश्चयेन, ये 'इमे '-प्रसिद्धाः, 'गृहस्थाः '-गृहिणः, 'समर्थाः '-शक्ताः सन्ति, 'ते'गृहस्थाः, ' द्रव्यभावार्चनकाधिकारिणः'-द्रव्यभावद्वारा पूजाया अधिकारिणः सन्ति, परन्तु ' इहभवे '-अस्मिन्संसारे, ये 'महान्तः'-महात्मनः, 'योगिनः' योगाभ्यासकर्तारो जनाः, 'द्रव्यपरिग्रहेण विना विभान्ति'-अर्थग्रहणमन्तरा शोभन्ते, निष्परिग्रहा वर्तन्त इतिभावः, 'तेषां'-पूर्वोक्तानाम् , ' महतां'-योगिनाम्, 'तु' शब्दो भिन्नक्रमप्रदर्शनार्थः, ' अधीशस्मृतिरेव युक्ता'-भगवन्नामजाप एव योग्योऽस्ति, कुत इत्याह-तथैवेत्यादिना यतः 'समस्ता'-सर्वा, ' तत्स्वार्थकृतिः '-तेषां योगिनां स्वार्थस्य सिद्धिः, ' तथैव '-अधीशस्मृत्यैव सज्जायते ॥ २२-२३ ॥ १. भगवत् । २. अधीशस्मृत्या । ३. तेषां योगिनां स्वार्थसिद्धिः सर्वाऽपि भवेत् । SARASEASE - -

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333