________________
ये योगिनो द्रव्यपरिग्रहेण, विना विभान्तीह भवे महान्तः।।
तेषां त्वधीशस्मृतिरेव युक्ता, तयैव तत्स्वार्थकृतिः समस्ता ॥ २३ ॥ टीका-अस्योत्तरमाह-साधूच्यत इत्यादिना ' हे साधुजन !' हे श्रेष्ठजन !, त्वया ' इदं '-पूर्वोक्तं वचनं, 'साधूच्यते'-प्रशस्तं कथ्यते, ' परं'-परन्तु, 'अत्र'-अस्मिन् विषये, पूजानामजापविषयमित्यर्थः, 'महद्भिः'-महात्मभिजनैः, 'विवेककृतः'-विवेचनम् कृतमस्ति, अधिकारभेदेनोक्तविषययोर्मेदः प्रतिपादित इत्यर्थों भेदमेव दर्शयति-इम इत्यादिना 'खल्वि 'ति निश्चयेन, ये 'इमे '-प्रसिद्धाः, 'गृहस्थाः '-गृहिणः, 'समर्थाः '-शक्ताः सन्ति, 'ते'गृहस्थाः, ' द्रव्यभावार्चनकाधिकारिणः'-द्रव्यभावद्वारा पूजाया अधिकारिणः सन्ति, परन्तु ' इहभवे '-अस्मिन्संसारे, ये 'महान्तः'-महात्मनः, 'योगिनः' योगाभ्यासकर्तारो जनाः, 'द्रव्यपरिग्रहेण विना विभान्ति'-अर्थग्रहणमन्तरा शोभन्ते, निष्परिग्रहा वर्तन्त इतिभावः, 'तेषां'-पूर्वोक्तानाम् , ' महतां'-योगिनाम्, 'तु' शब्दो भिन्नक्रमप्रदर्शनार्थः, ' अधीशस्मृतिरेव युक्ता'-भगवन्नामजाप एव योग्योऽस्ति, कुत इत्याह-तथैवेत्यादिना यतः 'समस्ता'-सर्वा, ' तत्स्वार्थकृतिः '-तेषां योगिनां स्वार्थस्य सिद्धिः, ' तथैव '-अधीशस्मृत्यैव सज्जायते ॥ २२-२३ ॥
१. भगवत् । २. अधीशस्मृत्या । ३. तेषां योगिनां स्वार्थसिद्धिः सर्वाऽपि भवेत् ।
SARASEASE
-
-