________________
ॐॐॐ2525
'तथा'-तेनैव प्रकारेण, 'यदि' 'एक:' 'कोऽपि'-कश्चन, 'नृपाऽपराधी'-नृपाऽपराधकर्ता जनः, भवति तर्हि 'असौ'पूर्वोक्तो जनः, “ सपरिच्छदोऽपि '-परिवारयुक्तोऽपि, 'निहन्यते'-मार्यते ॥२०॥
परमेश्वरनामस्मरणस्यापि आवश्यकता नवभिः श्लोकैराहमूलम्-यद्येवमादिकपुण्यमेतत्, सर्वात्मना स्वार्थकरं निरुक्तम् ।।
तदैतदेवाद्रियतां जनौघः, किं नामजापे विहिता प्रवृत्तिः ॥२१॥ टीका-अत्र प्रश्नयति ' यद्येवमिति'-यद्येवमित्यादिना, ' यदि '-चेत्, 'एतत् '-पूर्वोक्तं, 'अर्चादिकपुण्यम् 'पूजादिपुण्यम्, 'एवम् '-उक्तरीत्याऽभवत्, कथितप्रकारेणेत्यर्थः, 'सर्वात्मना'-सर्वप्रकारेण, 'स्वार्थकर'-स्वप्रयोजनसाधकं, 'निरुक्तं '-कथितमस्ति, 'तदा'-तर्हि, 'जनौपः'-जनसमूहः, 'एतदेव'-पूजादिपुण्यमेव, 'आद्रियतां'सत्करोतु, गृहीया(दा)द्रियादितिभावः, 'नामजापे'-भगवतो नाम्नो जपने, 'प्रवृत्तिः '-प्रवर्तनं, 'कि''विहिता'प्रतिपादिताऽस्ति ॥ २१॥ मूलम्-साधूच्यते साधुजन ! त्वयेदं, परं विवेकोऽत्र कृतो महद्भिः।
इमे गृहस्थाः खलु ये समर्था-स्ते द्रव्यभावार्चनकाधिकारिणः ॥ २२॥
50515155555
-
१. पूजादि । २. सर्वप्रकारेण । ३. पूजनक ।