________________
मूलम् - पुनस्त्वतीघोग्रतमं यदत्र, पुण्यं च पापं समुपार्जि पुंसा । अनेक पुंसामपि भुक्तये त-च्छालेरिव स्त्रैणयुजश्च चोरवत् ॥ १९ ॥
टीका - उग्रतमपुण्यपापफलदर्शयितुमाह - पुनरित्यादि पुनरि 'ति समुच्चये, ' तु ' शब्दचरणपूत्तौं, ' अत्र ' - अस्मिन्संसारे, ' अतीव ' - अत्यन्तम्, 'उग्रतमम् ' - अतिशयेनोग्रं, ' यत् ' - पुण्यम्, 'च' पुनः पापं, 'पुंसा - जनेन, ' समु~ पार्जि ' - अर्जितम्, ' तत् ' - उग्रतमं पुण्यं पापं च ' अनेकपुंसामपि ' - अनेकजनानामपि, ' भुक्तये ' - भोगाय भवति, अत्रोदाहरणमाह- क्रमशः शालेरिवेत्यादिना ' स्त्रैणयुतः ' - स्त्री समूहयुक्तस्य, 'शालेखि ' - शालिभद्रस्येव, 'च' - पुनः, 'चोरवत् ' - तस्करस्येव, पुण्यफलं स्त्रीसमूहयुक्तस्य शालिभद्रस्य भुक्तये यथाऽभूत्तथैवाऽन्यत्राऽप्यनेकपुंसां भोग्यं भवति पापफलम् च स्त्रीसमूहयुक्तस्य चोरस्य भुक्तये यथा भवति तथैवाऽन्यत्राऽप्यनेकपुंसां भोग्यं भवतीतिभावः ॥ १९ ॥
मूलम् - यथैककः कश्चन राजसेवां, कृत्वा सुखी स्यात्परिवारयुक्तः ।
एकस्तथा कोsपि नृपाऽपराधी, निहन्यतेऽसौ सपरिच्छदोऽपि ॥ २० ॥
टीका - उक्तविषयमेवोदाहरणेन स्पष्टयति-यथैकक इत्यादिना, ' यथा ' - येन प्रकारेण, 'एककः - एकः, ' कश्चन - कोऽपि जनः, 'राजसेवां कृत्वा ' - राज्ञः सेवनं विधाय, ' परिवारयुक्तः ' - कुटुम्बसमेतः, 'सुखीस्यात् ' - सौख्ययुक्तो भवति, १. शालिभद्रस्येव स्त्रीसमूहयुक्तस्य भुक्तये पुण्यफलमभूत् च पुनः चोरस्येव स्त्रीसमूहादियुक्तस्य पापफलं भुक्तये स्या
तथेति ।