________________
-
-
SHIRISHISHIGIRISHIBORIGAM
एकस्मिन्समये, सकृदितिभावः, ' अनुत्तराय' सर्वोत्तमाय, 'कस्मैचित् '-कस्मैचन, 'क्षत्रादये '-क्षत्रियादये जनेऽपि, जनायाऽपि, जनशब्दस्य नांतत्वमपि केपाश्चिन्मते विद्यते, ' स्तोकमपि '-स्वल्पमपि, 'प्रदत्तम्'-वितीर्णम् वस्तु, 'इह'अस्मिन् संसारे, 'नूनं '-निश्चयेन, 'तस्य'-दातुर्जनस्य, 'इष्टसिद्ध्यै '-अभिष्टसाधनाय भवति, एवंकृते पुन: कि भवतीत्याह-यावदित्यादिना 'तु' शब्दो विनिश्चये, यावत् '-यत्कालपर्यन्तम् , ' अयं '-दाता, 'जीवति'-प्राणान् दधाति, 'तावत् '-तत्कालपर्यन्तम् , 'अस्य'-दातुः, 'स:'-पूर्वोक्तः, 'राजपुत्रः'-क्षत्रियः, 'सकलार्थकारी '-सर्वकार्यसाधको भवति, 'ही' ति चरणपूत्तौं, 'धनं किमिति'-अत्र विषये किं वक्तव्यमित्यर्थः, 'स:'-क्षत्रियादि, ' दुष्टविपक्षजातात् '-दुष्टशत्रुसमूहात्, 'अपि'-शब्दः समुच्चये, ‘मृत्यन्तकष्टात् '-मरणान्तक्लेशात् , ' अशङ्कम् '-शङ्कारहितम् , यथा स्यात्तथा निसन्देहमिति यावत् उक्तदातारम् , ' पाति'-रक्षति ।। १६-१७॥ मूलम्-एवं हि कुत्राऽवसरे किलैक-वारं महत्पुण्यमुपार्जितं यैः।
तेषां तदत्रापि परत्र लोके, सत्सौख्यसन्तानविधानहेतुः ॥१८॥ टीका-उग्रपुण्यफलविषयमेवाह-एवमित्यादिना ' ही 'ति चरणपूत्तौं, ‘एवम् '-अनया रीत्या, 'कुत्राऽवसरे'क्वचित्समये, 'किले 'ति निश्चयेन, ' एकवारं'-सकृत् , ' यैः '-जनैः, ' महत्'-प्रभूतं पुण्यम् , 'उपार्जितम्'-प्राप्तम् , संग्रहीतमिति यावत् , ' तं'-महत्पुण्यम् , ' तेषाम् '-जनानाम् , ' अत्र'-अस्मिन्संसारे, 'अपि' शब्दः समुच्चये, 'परत्र लोके'-परभवे, ' सत्सौख्यसन्तानविधानहेतुः'-श्रेष्ठसुखसन्ततिकारणनिमित्तं भवति ॥ १८ ॥
-