________________
मनुष्याणाम् मध्ये, 'सूनृती'-सत्यवादी जनः, 'अस्ति '-विद्यते, सः 'दिव्ये '-कठिनप्रतिज्ञायाम् , ' क्षणात् '-क्षणेन, शीघ्रमेवेत्यर्थः, ' परिशुद्ध्यति '-शुद्धि प्राप्नोति ॥ १४ ॥ मूलम्-शुद्धाय सिद्धाय च साधवे तथा-ऽण्वपि प्रदत्तं सकलार्थसिद्धये।
स्यादैहिकामुष्मिकसर्वसौख्य-निवन्धनं बन्धनहृद् भवस्य ॥१५॥ टीका-उक्तविषयमेवाह-शुद्धायेत्यादिना 'तथे' ति समुच्चये, 'शुद्धाय '-निर्दपणाय, 'सिद्धाय'-सिद्धिं गताय जनाय, 'च'-पुन:, 'साधवे'-मुनये, 'अण्वपि'-स्वल्पमपि, 'प्रदत्तम् '-वितीर्णम् , वस्तु 'सकलार्थसिद्धये स्यात् 'सर्वप्रयोजनसाधनाय भवति, तथा 'ऐहिकामुष्मिकसर्वसौख्यनिवन्धनं '-सांसारिकपारभा(भ)विकसकलसुखकारणम् || भवति, तथा ' भवस्य '-संसारस्य, 'वन्धनहृत् '--बंधनहारि भवति ॥ १५ ॥ मूलम्-जनेऽपि कस्मैचिदनुत्तराय, क्षत्रादये स्तोकमपि प्रदत्तम् ।।
वारे कचित्केनचिदेकवेलं, तस्येष्टसिद्ध्यै भवतीह नूनम् ॥ १६ ॥ यावत्त्वयं जीवति तावदस्य, स राजपुत्रः सकलार्थकारी।
धनं हि किं दुष्टविपक्षजाता-न्मृत्यन्तकष्टादपि पात्यशङ्कम् ॥ १७॥ टीका-उक्तविषयमेवाह-जनेऽपीत्यादिना 'क्वचिद्वारे '-कुत्राऽप्यवसरे, 'केनचित्'-केनापि जनेन, 'एकवेलम् - १. अल्पम् । २. अयं राजपुत्रादेदाता कश्चिद्वैश्यादिः । ३. रक्षति । ४. प्रस्तावादेनं राजपुत्रादये दातारं प्रति गजपुत्रादिः।।
KORISTE U TOGE
-