________________
Vाऊलमल
तिर्न साध्वितिभावः, फलितमाह-तदित्यादिना 'भोः' इत्यामन्त्रणे, 'तत्'-तस्मात् कारणात् , ' एतत् '-पूर्वोक्तम् पुण्य- जमित्यर्थः, फलम् ' अन्यजन्मे '-भवान्तरे, जन्मशब्दस्याकारान्तत्वमपि केपांचिन्मतेऽस्ति, 'एति'-प्राप्नोति ॥१२॥
मूलम्-अनेकधोत्पन्नमनेकशो यथो-पभुज्यमानं बहुकालमात्रम् ।।
नक्षीयते पुण्यफलं तदेतत्, प्रायोऽन्यजन्मन्युदयं समेति ॥ १३ ॥ टीका-उदाहरणपूर्वकं फलितं स्पष्टयति-अनेकेत्यादिना ' यथा'-येन प्रकारेण, 'अनेकप्रकारैः'-अनेकपरिश्रमैरितिभावः, 'उत्पन्नम्'-जातम् , तथा ' अनेकशः'-अनेकवारान् , ' उपभुज्यमानम् '-भोग नीयमानम् वस्तु, 'बहुकालमानं'बहुकालयुक्तम् भवति, 'तत्'-तथा, 'एतत् '-पूर्वोक्तम् , 'पुण्यफलं '-पुण्योत्पन्नं फलम् , 'न क्षीयते'-न नश्यति, किन्तु 'प्रायः'-बहुधा, ' अन्यजन्मनि '-परभवे, 'उदयं समेति'-उदयं प्रामोति, उदयत इतिभावः ॥ १३ ॥ मूलम्-तथा च यत् किञ्चिदुदुग्रंपुण्यं, साक्षादिहैवार्पयति फलानि ।
यथाहि दिव्ये परिशुद्ध्यति क्षणाद्, यः कश्चिदत्राऽस्ति जनेषु सूती ॥ १४ ॥ टीका-अत्युग्रपुण्यफलविषयमाह-तथा चेत्यादिना 'तथा चे' ति समुच्चये, यत् 'किञ्चित् '-किमपि, 'उग्रपुण्यम्'अत्युग्रपुण्यम् भवति, तत् ' इहैव '-अस्मिन्नेव संसारे, 'साक्षात् '-प्रत्यक्षत्वेन, फलानि ' अर्पयति'-ददाति, अस्योदाहरणमाह-यथाहीत्यादिना 'यथा ही' ति तद्यथेत्यर्थः, यः कश्चित् '-कोऽपि, 'अत्र'-अस्मिन् संसारे, 'जनेषु'
१. वहुकालमेव स्वार्थे मात्रप्रत्ययः । २. अत्युग्र । ३. सत्यवादी ।