________________
मूलम् - यतो मनुष्यायुरतीव तुच्छं, मानुष्यकं देहमिदं शराके ।
तद्भुज्यमानं मरणान्तरागमात् सन्त्रुदयतीदं पृथुपुण्यजं फलम् ॥ ११ ॥
टीका - तस्य मंक्षु विनाशित्वे हेतुमाह-यत इत्यादिना ' यतः ' - यस्मात् कारणात्, ' मनुष्यायुः ' - मनुष्यसम्बन्धि जीवनकाल:, 'अतीवतुच्छं' - अत्यन्तं स्वल्पमस्ति, तथा 'इदं ' - प्रसिद्धम्, 'मानुष्यकं देहं ' - मनुष्यसम्बन्धि शरीरं, 'शरारु' - विनश्वरमस्ति, 'तत्' - तस्मात् कारणात्, 'भुज्यमानं ' - भोगं नीयमानम् फलम्, 'मरणान्तरागमात् ' - मृत्योर्मध्ये समागमात्, ' सन्त्रुट्यति ' - छिद्यते, परन्तु ' इदं ' - पूर्वोक्तम्, प्रसिद्धं वा, पुण्यजं फलं, 'पृथु ' - विस्तीर्णमस्ति, पुण्यभावि फलं चिरमुपभुज्यत इतिभावः ॥ ११ ॥
मूलम् - सुखान्तरा दुःखभवो महीयो- दुःखाय यत्स्यादतिभीतिदा मृतिः ॥
सा पुण्यजेऽस्मिन्सति नैव युक्ता, तदन्यजन्मे फलमेतदेति भोः ॥ १२ ॥
टीका - पुण्यफलमहत्वमेवाह - सुखान्तरेत्यादिना 'सुखान्तरा' - सुखमध्ये, ' दुःखभत्र: ' - दुःखोत्पत्तिः, 'महीयः दुःखाय ' - महत्तरक्लेशाय भवति, सुख भोगकालमध्ये दुःखोत्पत्तिरतीव क्लेशदायिनी भवतीतिभावः, अत्र हेतुमाह-यदित्यादिना ' यत् ' - यस्मात् कारणात्, 'मृतिरतिभीतिदा स्यात् ' - मरणम् अत्यन्तं भयदं भवति, 'सा' - मृतिः, 'अस्मिन् पुण्यजे सति' - पुण्योत्पन्नेऽस्मिन् फले विद्यमाने सति, ' एवे 'ति निश्रये, ' युक्ता ' - योग्या, नास्ति, पुण्यजफलभोगकाले मृत्योराग
१. विनश्वरम् । २. मध्ये । ३. उत्पत्तिः । ४. महत्तर । ५. फले ।