________________
मूलम् - इदं सुहृत् ! पुण्यभवं फलं तु, महत्ततः स्याद्बहुकालभुक्त्यै । प्रभूतकालस्तु विना भवान्तरं, देवादिसम्बन्धि न वर्तते यतः ॥ ९ ॥
टीका - पुण्यफलगौरवं दर्शयितुमाह - इदमित्यादिना 'तु' शब्दो भिन्नक्रमद्योतनार्थः, ' हे सुहृत् ! ' - हे मित्र !, 'इदं ' - पूर्वोक्तम्, प्रसिद्धम्, 'पुण्यभवं फलं ' - पुण्यादुत्पन्नं फलं, ' महत् ' - गुरुरस्ति, ' तत् ' - तस्मात् कारणात्, तत् ' बहुकालभुक्त्यै स्यात् ' - चिरकालपर्यन्तं भोगाय भवति, प्रभूतकालः कदा लभ्यते १ इत्याह- प्रभूतेत्यादिना 'तु ' - शब्दो विशेषणार्थः, ' यतः ' - यस्मात् कारणात्, ' प्रभूतकालः ' - बहुसमयः फलभोगाय भूरिसमय इत्यर्थः, 'देवादि - सम्बन्धि भवान्तरं विना ' - देवादिसम्बन्धयुक्तो योऽन्यो भवस्तमन्तरेण, ' न वर्तते ' - न भवति, न लभ्यत इतिभावः ॥ ९ ॥ मूलम् -- तत्पुण्यलभ्यं फलमेतदस्ति, प्रायोऽन्यजन्मान्तरयातजन्तोः ।
यद्यत्र जन्मन्युपयाति पुण्य-फलं तदा मक्षु विनाशमेव ॥ १० ॥
टीका — उक्तविषयमेवाह - तदित्यादिना ' तत् ' - तस्मात् कारणात्, ' एतत् ' - पूर्वोक्तम्, ' पुण्यलभ्यं फलं ' - पुण्येन प्रापणीयं फलं, ' प्राय:' - बहुधा, 'अन्यजन्मान्तरयातजन्तोरस्ति ' - परभवप्राप्तप्राणिनो भवति, ' यदि ' - चेत्, ' तत्पुण्यफलं ' - पुण्येन प्राप्यं फलम्, ' अत्र जन्मनि ' - अस्मिन्भवे, प्राणिनः ' उपयाति ' - प्राप्नोति, ' तदा ' - तर्हि, तत् शीघ्रम् ' एवे 'ति निश्चये, ' विनाशं ' - नशनम् उपयाति ॥ १० ॥
१. प्राप्त ।