________________
टीका-अत्रैव पुष्टिमाह-पुनरित्यादिना 'पुनरि 'ति समुच्चये, ' हे बुध !' हे विद्वन् !, ' स्वकीये हृदि '-स्वमानसे, 'अवस्य'-जानीहि, यत् ये 'इमे'-प्रसिद्धाः, 'पूर्वे'-पूर्व, 'प्रणीता'-कथिताः पदार्थाः सन्ति, पूर्व कथिता ये चिन्तामण्यादि । पदार्थाः सन्तीतिभावः, 'च' शब्दश्वरणपूर्ती, 'ते'-पूर्वोक्ताः पदार्थाः, 'ऐहिकाः'-एतत्संसारवर्तिनः, सन्ति, 'तत्'-तस्मात् | कारणात् , ते ' ऐहिकदायिनः '-संसारभाविफलप्रदाः सन्ति, 'अथेति समुच्चये, ते 'अत्रैव'-अस्मिन्नेव संसारे, 'फलन्ति'-| फलदा भवन्ति, अत्र हेतुमाह-यत इत्यादिना 'यतः'-यस्मात् कारणात् , ते 'अग्रत:'-अग्रे, परभव इत्यर्थः, न फलन्ति ॥७॥ मूलम्-मनुष्यसम्बन्धिभवस्य तुच्छ-कालीनभावादिति तुच्छमेभ्यः।
प्राप्यं फलं तेन मनुष्यजन्म-न्यैवाऽत्र 'नेभ्योऽस्ति फलं परत्र ॥८॥ ___टीका-एतदेव स्पष्टयति-मनुष्येत्यादिना ' इति' शब्दश्चरणपूत्तौं, 'मनुष्यसम्बन्धि '-जनसम्बन्धिनः, ' भवस्य 'संसारस्य, 'तुच्छकालीनभावात् '-स्वल्पकालावस्थायित्वात् , हेतौ पञ्चमी, 'एभ्यः '-पूर्वोक्तेभ्यश्चिन्तामण्यादिपदार्थेभ्यः, 'तुच्छं'-स्वल्पं फलं, 'प्राप्यं '-लभ्यम्, भवति, ' तेन'-कारणेन, ' अत्र'-अस्मिन् , ' मनुष्यजन्मन्येव '-मनुष्यसम्बन्धिनि भव एव, 'एभ्यः'-पूर्वोक्तपदार्थेभ्यः, 'परत्र'-परलोके, फलं 'नास्ति'-न भवति ॥८॥
१. दक्षिणावर्तकादिभ्यः परत्र फलं न स्यात् अननुगामित्वात्, चर्मचक्षुर्दश्यमानपदार्थास्तु जीवानामसहगामिनो भवन्ति, परमेश्वरपूजादिसमुत्थं पुण्यफलं अदृष्टत्वात् अदृष्टजीवेन सहगामि भवतीति तत्त्वम् । २. परलोके ।।