Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 294
________________ कककककRESS मूलम्-यथा विषं गारुडहंसजागुली-मन्त्रस्य जापाच्छ्रवणाच देहिनाम् । मूछवितां तत्त्वमजानतामपि, विनश्यतीत्थं भगवत्स्मृतेरघम् ।। २४ ॥ टीका-अधीशस्मृत्यैव कथं तेषां स्वार्थसिद्धिरित्युदाहरणद्वारा दर्शयति-यथेत्यादिना ' यथा'-येन प्रकारेण, 'गारुडहंसजाङ्गुलीमन्त्रस्य'-गरुडसम्बन्धिमन्त्रस्य हंससम्बन्धिमन्त्रस्य जागुलीमन्त्रस्य च, 'जापात् '-जपनात, 'च'-पुन:, श्रवणात् '-श्रवणेन, 'मूर्छावतां'-मूछौँ प्राप्तानाम् , ' देहिनाम् '-प्राणिनाम्, 'विषं '-गरलं, 'विनश्यति'-नाशं याति, ' इत्थम् '-अनयैव रीत्या, ' तत्त्वमजानतामपि '-तत्वमज्ञातॄणामपि जनानाम् , ' अघं'-पापम् , ' भगवत्स्मृतेः'भगवतः स्मरणेन विनश्यति ॥ २४ ॥ ___ मूलम्-तथाऽस्थिभक्षीति हुमायपक्षी, प्रसिद्धिमान्सन्ततजीवरक्षी। ___ उड्डीयमानस्य यदस्य छाया, यन्मूर्द्धगा सोऽत्र भवेन्नरेन्द्रः ॥ २५ ॥ १ ननु योगिन. सम्यग्भगवत्स्वरूपं यथास्थितं न विदन्ति भगवानपि निःस्पृहो नीरागश्च ततः केवलं भगवत्स्मृत्या एव योगिनां किं सिद्धयेदित्याह यथा विषमिति । ननु भगवद्ध्यायका योगिनस्तु यदि भगवत्स्वरूपं न जानन्ति, परं भगवांस्तु जानाति अयं ध्याता मां ध्यायति एव गारुडिको गारुडादिमन्त्रान्वेत्ति परं विषा? यद्यपि गारुडादिमन्त्रस्वरूपं न जानाति तथाऽप्यस्य गारुडिकप्रयुक्तगारुडादिमन्त्रप्रयोगाद्विपनाश एवं योगिनोऽपि सम्यग्भगवज्ञानाभावेऽपि भगवन्नामाक्षरप्रभावात् दुष्कर्मक्षये पापं नश्यतीति एवमेकपक्षभूतेऽपि ज्ञानेऽभीष्टसिद्धिः । २. आस्तामेकपक्षजमपि ज्ञानमुभयपक्षविकलेऽपि ज्ञाने संयोगमात्रादपीएसिद्धिर्यथा हुमायपक्षिणो यस्य शिरसि छाया निपतति स पातसाहिर्भवति तत्र हुमायोऽपि न वेत्ति यदस्य सससससस

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333