Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 324
________________ मननशीला अपि, 'मुह्यन्ति'-मोहं प्राप्नुवन्ति, मुग्धा भवन्तीतिभावः, 'केवलिनं विना'-केवलज्ञानिनमतिरिच्य, 'सकलश्रुतेक्षी'-सर्वश्रुतदर्शका, 'व्यक्तोऽपि '-प्रकटीभूतोऽपि, 'अमुं'-पूर्वोक्तम् विचारम्, 'वक्तुं न शक्तः '-कथयितुम् न समर्थः स्यात् ।। ६॥ मूलम्-अतस्तु वैयात्यमिदं मदीय-मुदीक्ष्य दक्षैर्न हसो विधेयः। बालोऽपि पृष्टो निगदेत्प्रमाणं, वाधैर्भुजाभ्याम् स्वधिया न किं वा ॥७॥ टीका-एवं तर्हि स्वागम्ये विचारे कथं प्रवृत्तिः कृतेति शङ्कां परिहर्तुमाह-अतस्त्वित्यादि । अतः - अस्मात्कारणात् , ' तु ' विनिश्चये, ‘मदीयं'-मत्सम्बन्धि, ' इदम् '-एतत्, ‘वैयात्यम् '-धार्यम् , निर्लजत्वमितिभावः, 'उदीक्ष्य '-दृष्ट्वा, ' दक्षैः '-चतुरैर्जनैः, ' हसो न विधेयः' उपहासो न कर्त्तव्यः, कुत इत्याहबालोऽपीत्यादि यतः ‘पृष्टः '-पृच्छां नीतः सन् , 'बालोऽपि '-शिशुरपि, वेति निश्चयेन, ' स्वधिया'-निजबुद्धया, 'भुजाभ्याम् 'बाहुभ्याम् , बाहू वितत्येतिभावः, 'वार्धेः प्रमाणं '-समुद्रस्य विस्तारम् , कि 'न निगदेत् '-न कथयति, अपि तु कथयत्येवेत्यर्थः ॥७॥ मूलम-यद्वेदमेवाल्पधियां समस्तु, शास्त्रं यतः शासनमस्त्यथास्मात् । यदुक्तिप्रत्युक्तिनियुक्तियुक्तं, तद्वाभियुक्ताः प्रणयन्ति शास्त्रम् ॥८॥ टीका-अथवा ममोक्तविचारनिर्बन्धोऽपि केपाश्चिच्छास्त्रं भवितुम् शक्नोतीत्याह-यद्वेत्यादिना ' यद्वा'-अथवा, LAM -

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333