Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
View full book text ________________
येत्याह - स्वकीयेत्यादि ' स्वकीयान् यदीयचेतः स्थिरतोपसम्पदे ' - स्वसम्बन्धिमनः स्थिरत्वरूपावान्तरसम्पत्तये ॥ २१ ॥ मूलम् - एवं यथाशेमुषि जैनतत्त्व - सारो मयाऽस्मारि मनःप्रसत्यै ।
उत्सूत्रमासूत्रितमत्र किञ्चिद्, यत्तद्विशोध्यं सुविशुद्धधीभिः ॥ २२ ॥
‘
टीका -- सुधीसम्बन्धे स्वावनतच्च दर्शयति एवमित्यादिना ' एवम् ' - अनया रीत्या, मया ' यथाशेमुपि ' - स्वबुद्ध्यनुसारेण, 'जैनतत्त्वसार:' - जैनतत्त्वसारनामको ग्रन्थः, 'मनः प्रसत्यै ' - मनसः प्रसन्नतायै, स्वकीयान्यमनः प्रसादायेतिभावः, 'अस्मारि ' - स्मृतः, कृत इतिभाव:, ' अत्र ' - अस्मिन् ग्रन्थे, यत् किञ्चित् ' - किमपि, 'उत्सूत्रम् ' - सूत्र विरुद्धम्, आसत्रितम् ' -रचितम् स्यात्, ' तत्सुविशुद्धधीभिः ' - अतिनिर्मलबुद्धिभिर्जनैः, 'विशोध्यम्' - शोधनीयम् ॥ २२ ॥ मूलम् — वर्षे नन्दतुरङ्गचन्दिरकलामानेऽश्वयुक् पूर्णिमा,
ज्ञे योगे विजयेऽहमेत ममलं पूर्ण व्यधामादरात् । ग्रन्थं वाचकसूरचन्द्रविबुधः प्रश्नोत्तरालङ्कृतम्, साहाय्याद्वरपद्मवल्लभगणेरर्हत्प्रसादश्रियै ॥ २३ ॥
टीका -- ग्रन्थनिर्माणवर्षादिकथनपूर्वकं फलप्राप्तिं निगमयति-वर्ष इत्यादिना 'नन्दतुरङ्गचन्दिरकलामाने वर्षे नन्दा नव, तुरङ्गा सप्त, चन्दिरकला चन्द्रकलाः ताच पोडश, ताभिर्मानं परिमाणं यस्य स तथा तस्मिन्वर्षे, अङ्कानां वामतो गतित्वादेको नासीत्युत्तरषोडशतमितेऽब्दे ( १६७९) इति ज्ञेयम्, 'अश्वयुक्पूर्णिमा ज्ञे' अश्वयुक् - अश्विनी तया
Loading... Page Navigation 1 ... 329 330 331 332 333