Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 305
________________ मूलम्-स्वादात्मनो योऽवगमो बभूव, भावात्समाख्याद्गतरागरोषात् । अपूर्चलाभान्निखिलार्थदृष्टे-रध्यात्मयोगः स्वत एव सिद्धः ॥ १३ ॥ टीका-आत्मभवावबोधात् कथमध्यात्मयोगसिद्धिरिति दर्शयितुमाह-स्वादित्यादि 'समाख्यात्' 'समनामकात् भावात्'अंतराशयात्, समभावादित्यर्थः, 'गतरागरोपात्'-रागद्वेषप्रणाशात् , 'अपूर्वलामात्'-अप्राप्तताहगलामात्, तथा 'निखिलार्थदृष्टेः-सकलद्रव्यदर्शनात् , सर्वत्र हेतौ पश्चमी ' इति '-एतेभ्यो हेतुभ्यः, ' स्वात् '-स्वकीयात् , ' आत्मनः '-जीवात् , ' योऽवगमो बभूव ' यद्ज्ञानमभवत् , 'स'-अध्यात्मयोगः, आत्मानमधिकृत्य प्रवृत्तो योगः, 'स्वत एव'-स्वयमेव, अन्याऽपेक्षया विनैवेतिभावः, "सिद्धः '-सिद्धि प्राप्तोऽस्ति ॥१३॥ मूलम्-एवं हि यश्चाऽत्मभवात्मबोध-स्तस्मान्नृणां जायत एव मुक्तिः। अस्या न हेतुस्त्वपरोऽस्ति विष्णु-मुख्यस्तदात्माऽवेगमस्पृहैष्या ॥१४॥ टीका-फलितमाह-एवमित्यादिना ' ही ' ति निश्चये, 'च' शब्दश्चरणपूत्तौं, 'एवम् '-अनया रीत्या, “यः'आत्मभवात्मबोधः, स्वयमुत्पन्नम् आत्मज्ञानमस्ति, 'तस्मादेव'-पूर्वोक्तादात्मभवात्मबोधादेव, 'नृणां'-मनुष्याणाम् , 'मुक्तिः '-मोक्षः, 'जायते'-उत्पद्यते, ' तु'-किन्तु, 'अपरः'-भिन्नः, आत्मभवात्मबोधादन्य इत्यर्थः, 'विष्णु १. समभावात् । २. अप्राप्ततादृग्लाभात् । ३. सकलद्रव्यदर्शनात् । ४. मुक्तेः । ५. शानम् ।

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333