________________
मूलम्-स्वादात्मनो योऽवगमो बभूव, भावात्समाख्याद्गतरागरोषात् ।
अपूर्चलाभान्निखिलार्थदृष्टे-रध्यात्मयोगः स्वत एव सिद्धः ॥ १३ ॥ टीका-आत्मभवावबोधात् कथमध्यात्मयोगसिद्धिरिति दर्शयितुमाह-स्वादित्यादि 'समाख्यात्' 'समनामकात् भावात्'अंतराशयात्, समभावादित्यर्थः, 'गतरागरोपात्'-रागद्वेषप्रणाशात् , 'अपूर्वलामात्'-अप्राप्तताहगलामात्, तथा 'निखिलार्थदृष्टेः-सकलद्रव्यदर्शनात् , सर्वत्र हेतौ पश्चमी ' इति '-एतेभ्यो हेतुभ्यः, ' स्वात् '-स्वकीयात् , ' आत्मनः '-जीवात् , ' योऽवगमो बभूव ' यद्ज्ञानमभवत् , 'स'-अध्यात्मयोगः, आत्मानमधिकृत्य प्रवृत्तो योगः, 'स्वत एव'-स्वयमेव, अन्याऽपेक्षया विनैवेतिभावः, "सिद्धः '-सिद्धि प्राप्तोऽस्ति ॥१३॥ मूलम्-एवं हि यश्चाऽत्मभवात्मबोध-स्तस्मान्नृणां जायत एव मुक्तिः।
अस्या न हेतुस्त्वपरोऽस्ति विष्णु-मुख्यस्तदात्माऽवेगमस्पृहैष्या ॥१४॥ टीका-फलितमाह-एवमित्यादिना ' ही ' ति निश्चये, 'च' शब्दश्चरणपूत्तौं, 'एवम् '-अनया रीत्या, “यः'आत्मभवात्मबोधः, स्वयमुत्पन्नम् आत्मज्ञानमस्ति, 'तस्मादेव'-पूर्वोक्तादात्मभवात्मबोधादेव, 'नृणां'-मनुष्याणाम् , 'मुक्तिः '-मोक्षः, 'जायते'-उत्पद्यते, ' तु'-किन्तु, 'अपरः'-भिन्नः, आत्मभवात्मबोधादन्य इत्यर्थः, 'विष्णु
१. समभावात् । २. अप्राप्ततादृग्लाभात् । ३. सकलद्रव्यदर्शनात् । ४. मुक्तेः । ५. शानम् ।