________________
SASARAS
मुख्यः '-विष्णवादिः, ' अस्याः '-मुक्तेः, ' हेतुर्नास्ति'-कारणं न विद्यते, 'तत् '-तस्मात् , 'आत्मावगमस्पृहा 'आत्मज्ञानाकांक्षा, 'एष्या'-अभिलपणीयाऽस्ति ॥१४॥ ___ मूलम्-ये तु स्वभावान्निगदन्ति मुक्ति, तत्राऽप्यसावेव निवेदितोऽर्थः।
___स्वस्याऽऽत्मनो भाव इहाप्तिरुक्ता, तदात्मलाभान्ननु सिद्धिलक्ष्मीः ॥ १५॥ टीका-मतान्तरं परिहर्तुमाह-ये त्वित्यादि 'तु'-पुनः, 'ये'-स्वभाववादिनो जनाः, 'खभावात् '-स्वभावसकाशात, 'मुक्तिं निगदन्ति'-मोक्षं कथयन्ति, स्वभावान्मुक्तिर्भवतीति कथयन्तीतिभावः, 'तत्रापि'-तद्विषयेऽपि, ' असावेव-पूर्वोक्त एव, 'अर्थः '-आशयः, 'निवेदितः'-कथिता, ज्ञेयः, 'यत्'-य:, 'स्वस्य'-खकीयस्य, 'आत्मनःजीवस्य, भावोऽस्ति सः एव, 'इह'-अस्मिन्संसारे, 'आप्तिरुक्ता'-प्राप्तिः कथिताऽस्ति, 'भावः'-भूप्राप्तावित्यस्माद् धातोर्भावः सिद्धः स च प्राप्त्यपरपर्यायः एवं च स्वस्थाऽऽत्मनो भावः प्राप्तिः याथातथ्येनाऽऽत्मनोऽवबोधेनाऽऽत्मलाभो योऽस्ति स एव स्वभाव उच्यत इतिभावः, 'नन्विति निश्चयेन, 'तस्मात्'-कारणात्, स्वभावशब्दस्याऽऽत्मलाभवाचकत्वात् इतिभावः, 'आत्मलाभात् '-स्वभावात् , आत्मज्ञानप्राप्तेरित्यर्थः, 'सिद्धिलक्ष्मीः'-सिद्धेः संपत् , मुक्तिरित्यर्थों भवति ॥१५॥ मूलम्-एवं समस्तैरपि मुक्तिमिच्छभि-मुक्तिः समेष्या नियतात्मबोधात् ।
अस्या निमित्तं नहि किश्चिदस्मा-दन्यन्न्यगादि प्रगुणैर्यदुच्यते ॥ १६ ॥ १. भूप्राप्तावित्यस्य भावः प्राप्तिरित्यर्थ. स्वस्यात्मनो भावः प्राप्ति. याथातथ्येनाऽऽत्मनोऽवबोधेनाऽऽत्मलाभ इत्यर्थः । २. मुक्तेः।
CASSASARALEKHAKALEGE