________________
यावत्कषायान्विषयानिषेवते, संसार एवैष निगद्य आत्मा।
एतद्विमुक्तोऽजनि यावदात्मा-वबोधयुग्मोक्ष इतीहितोऽयम् ॥१७॥ टीका-उक्तविषयपुष्ट्यर्थमेवाह-एवमित्यादि ' एवम् '-अनया रीत्या, 'मुक्तिमिच्छुभिः'--मोक्षाभिलापिभिः, 'समस्तैरपि'-सर्वैरपि जनैः, 'आत्मबोधात् '-आत्मज्ञानात् , मुक्तिः 'नियता'-निश्चिता, ' समेष्या'-सममिलपणीयाऽस्ति,आत्मज्ञानानिश्चयेन मुक्तिर्भवतीति, 'सर्वैरपि '-मोक्षाभिलापिभिः, मन्तव्यमितिभावः, अत्र हेतुमाह-अस्या इत्यादिना 'यतः'-अस्मात् अन्यत् , आत्मबोधादितरत् , 'किञ्चित् '-किमपि वस्तु, ' अस्याः '-मुक्तेः, 'निमित्तं नहि न्यगादिकारणं नैव कथितमस्ति, ' यत् 'यस्मात् कारणात् , 'प्रगुणैः '-उत्कृष्टगुणयुक्तः, महात्मभिर्जनः, 'एतद्-वक्ष्यमाणम् , 'उच्यते'-कथ्यते, यत् ' यावत् '-यत्कालपर्यन्तम् , ' आत्मा'-जीवः, 'कपायान् '-क्रोधादीन्, 'विषयान्'-रूपादीन, 'निषेवते '-परिसेवते, तावत् 'एप:'-आत्मा, 'संसार एव निगद्यः'-संसार एव कथनीयोऽस्ति परन्तु 'यावत् '-यत्, 'आत्मा'-जीवः, 'एतद् विमुक्तः'-कपायविषयरहितः सन् , 'अवबोधयुग'-ज्ञानयुक्तः, 'अजनि'-अजायत, तदा है 'अयं'-आत्मा, ' मोक्ष इतीहितः '-मोक्ष इति कथितो भवति ॥ १६-१७॥ मूलम्-ज्ञानं तथा दर्शनकं चरित्र-मात्मैष वाच्यो नहि किश्चिदस्मात् ।
भिन्नं यदेतन्मय एव देह-मेष श्रितस्तिष्ठति कर्मनिष्टः ॥१८॥ १. वक्तव्यः । २. कर्म ( कषायविषय ? ) । ३. आत्मा । ४. युक्तः ।