________________
-
-
-
सरसऊसकरॐॐकार
टीका-आत्मस्वरूपमेव विवृणोति-ज्ञानमित्यादिना 'हीति निश्चयेन, 'ज्ञानम् 'दर्शनकम्'-दर्शनम्, 'तथे 'ति समुच्चये, 'चरित्रं '-चारित्रम्, 'एषः'-प्रसिद्धा, 'आत्मा'-जीवः, 'वाच्यः'-कथनीयोऽस्ति, आत्मैव ज्ञान-दर्शनचारित्रशब्दैर्वाच्योऽस्तीतिभावः, ' अस्मात् '-आत्मनः, "भिन्नं'-पृथक, 'किश्चित् '-किमपि नास्ति, अत्र हेतुमाह-यदित्यादिना ' यत् '-यस्मात् कारणात् , ' कर्मनिष्ठः '-कर्मयुक्तः, 'एषः'-आत्मा, 'एतन्मय एव'-ज्ञान-दर्शन-चारित्रस्वरूप एव, 'देहं श्रितस्तिष्ठति '-शरीराश्रितो वर्तते ॥ १८॥ मूलम्-आत्मानमात्मैष यदाभिवेत्ति, मोहक्षयादात्मनि चात्मशक्त्या।
तदेव तस्योदितमात्मविद्भि-निं च दृष्टिश्चरणं ताप्तः ॥ १९॥ टीका-अत्रैव पुष्टिमाह-आत्मानमित्यादिना ' यदा'-यस्मिन्काले, 'एषः'-प्रसिद्ध आत्मा, 'मोहक्षयात्'--'मोहस्य नाशेन, 'च'-पुन:, 'आत्मशक्त्या'-स्वज्ञानबलेन, हेतौ तृतीया पञ्चमी च, 'आत्मनि'-आत्मविषये, 'आत्मानं -स्वरूपम्, 'अभिवेत्ति'-सम्यक्तया जानाति, 'तदैव'-तस्मिन्नेव काले, ' तस्य'-आत्मनः, ' आप्तैः'-यथार्थवाभिः, परमप्रत्ययवद्वचो विशिष्टैरहद्भिरितिभावः, 'ज्ञानम् ' ' दृष्टिः '-दर्शनम्, 'च'-पुनः, 'चरणं'-चरित्रम् , ' उदितं'-कथितमस्ति , 'तथा' शब्दो विनिश्चये, कथम्भूतैराप्तैः ? ' आत्मविद्भिः'-आत्मज्ञानिमिः ॥१९॥
१. स्वशानवलेन । २ आत्मनः । ३. दर्शनं । ४ अर्हद्भिः परमप्रत्ययवद्वचोविशिष्टैः ।
-
"MARGAON