________________
मूलम् - आत्मावयोधेन निवार्यमात्माऽज्ञानोद्भवं दुःखमनन्तकालिकम् । अनेककष्टाचरणैरपीदं, विनाऽऽत्मबोधादनिवार्यमस्ति यत् ॥ २० ॥
टीका - आत्मज्ञानप्राप्तौ फलमाह - आत्मेत्यादिना 'आत्मावबोधेन' - आत्मज्ञानेन 'दुःख' -क्लेशः, 'निवार्य' - निवारयितुम् योग्यम् भवति, कथम्भूतं दुःखम् ? 'आत्माऽज्ञानोद्भवम् ' - आत्मनोऽज्ञानेनोत्पन्नम् पुनः कथम्भूतम् ? 'अनन्तकालिकं' - अनन्तकाल स्थितियुक्तम्, अत्र हेतुमाह - अनेकेत्यादिना 'यत्' - यस्मात् कारणात्, 'इदं' - दुःखम्, 'आत्मबोधाद्विना' - आत्मज्ञानमन्तरेण, 'अनेककष्टाचरणैरपि ' - कष्टसाध्यप्रभूतव्यवहारैरपि 'अनिवार्यमस्ति - निवर्तयितुम् अयोग्यं भवति ॥ २० ॥
मूलम् - चिद्रूप आत्मायमधिष्ठितस्तनुं, कर्मानुभावादसकौ शरीरी ।
ध्यानाग्निनिर्दग्धसमस्तकर्मा, स्याच्छुद्ध आत्मा तु तदा निरजनः ॥ २१ ॥
टीका - आत्मावस्थामाह - चिद्रूप इत्यादिना 'कर्मानुभावात् ' - कर्मप्रभावात् ' अयं ' - पूर्वोक्तः, ' चिद्रूपः 'ज्ञानरूपः, अपि ' आत्मा - जीवः, 'तनुमधिष्ठितः - शरीराश्रितोऽस्ति तथा, 'असकौ ' - आत्मा, 'शरीरी - शरीरधारी, ' उच्यते ' - कथ्यते, 'तु ' - परन्तु यदा ' ध्यानाग्निदग्धसमस्तकर्मा - ध्यानरूपाग्निना दग्धानि - दाहं नीतानि - सकलानि कर्माणि येन सः, तथा भवति तदा ' अयम् ' - आत्मा, 'शुद्धः '-निर्मलः, दोपशुन्य इतिभावः, तथा 'निरञ्जनः स्यात् 'निर्लेपो भवति ॥ २१ ॥
१. प्रभावात् ।
२५