________________
*
**
*
मूलम्-इतीयंता सिद्धमिदं विदन्तो ! यदात्मबोधान्न परोऽस्ति सिद्धये ।
हेतुस्ततोऽत्रैव यतध्वमध्वनि, येनाऽऽत्मनः स्थानमहो महोदये ॥२२॥ टीका-फलितमाह-इतीयतेत्यादिना 'विदन्तः !'-भो पण्डिताः', 'इतीयता'-एतावता प्रबन्धेन, 'इदं - वक्ष्यमाणम् , ' सिद्धं '-सिद्धिमुपगतम् , यत् 'आत्मबोधात् '-आत्मज्ञानात् , 'परः'-भिन्नः कोऽपि पदार्थः, 'सिद्धयेसिद्धिप्राप्तये, ' हेतुर्नास्ति'-कारणं न विद्यते, तस्मात् कारणात् , ' अत्रैवाऽध्वनि '-अस्मिन्नेव मार्ग, यूयम् ' यतध्वम् - यत्नं कुरुध्वम् , 'अहो'-इत्यामन्त्रणे, 'येन'-कारणेन, उक्तमार्गे यत्नवशादित्यर्थः, 'महोदये'-महत्युदये, मोक्ष इत्यर्थः, 'आत्मनः '-जीवस्य, 'स्थानं '-स्थितिः स्यात् ॥ २२ ॥ मूलम्-मुनीश ! साधूदित एष मुक्ते-मार्गो जिनेन्द्रागमयुक्तिसिद्धः। उत्सर्गनोत्सर्गहठाभिमुक्तः, श्रेयाश्रिये केवलराजयोगात् ॥२३॥
मुक्तेः सर्वदर्शनानुसारिमार्ग त्रयोदशश्लोकैराहपरं हि यः सर्वमतानुर्यायी, मार्गोऽस्ति मुक्तेद्रतमात्मदृष्टये।
अध्यात्मविद्याधिगमैकहेतुः, स मे निवेद्यः सरलः श्रमं विना ॥२४॥ १. प्रवन्धेन । २. भो जानन्तः भो पण्डिता इत्यर्थः । ३ मोक्षे । ४. उत्सर्गापवादलक्षणकान्तकर्तव्यतारूपहठरहितः, स्याद्वादाधिश्रित इत्यर्थः । ५. मोक्ष । ६. दर्शन । ७. ज्ञानाय ।